SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ तृतीय सर्ग . आमोदेनानुपरततरोऽहदिवं यादवीनां विष्वव्यापी पुरुरथ पुरेऽभूदुलूलध्वनिर्यत् । मन्ये धन्येतरनरकुलेष्वप्यनुत्साहधाम्नां शोकानां तत्प्रतिहतिजुषां तन्ननाशावकाशः ॥२८॥ आमोदेन ० हे जलद ! अथ विवाहकमंप्रारम्भानन्तरं पुरे द्वारकायां पुनः यत् यादवीनां यादवपत्नीनां अहर्दिवं नक्तंदिवं उलूलध्वनिः धवलध्वनिः अभूत् बभूव । किरूपो उलूलध्वनिः-आमोदेन हर्षेण अनुपरततरः न उपरतः उपशान्तः अनुपरतः पुरुः प्रकृष्टोऽनुपरतः अनुपरततरः अत्यर्थम् अनुपशान्तः, तथा विश्वव्यापी समन्तात् प्रसरणशीलः । हे जलघर ! तत् अहमेवं मन्ये । तत्प्रतिहतिजुषां तैः धवल: प्रतिहति प्रतिहननं जुषन्ति सेवन्ति ये ते तेषां तत्प्रतिहतिजुषां। शोकानां धन्येतर. नरकुलेष्वपि नीचकुलेष्वपि न शोकावकाशः नाशस्थानं न अभूत् । किरूपानां शोकानां-अनुत्साहधाम्नाम् आलस्यगृहाणाम् ॥२८॥ हे मेघ ! विवाह कर्म के प्रारम्भ होने पर यदु वधुओं द्वारा उच्च स्वर में गाये जाने वाले मङ्गल गीतों के सम्पूर्ण द्वारिका में फैलने के कारण ऐसा प्रतीत होता था कि द्वारिका के निर्धन पुरुषों के गृहों में भी आलस्य और शोक का नामोनिशान नहीं था अर्थात् सम्पूर्ण द्वारिका में प्रसन्नता की लहर दौड़ गई थी ॥ २८॥ भूभृत्प्रेक्ष्या अपि वरवधूतातयोः प्रीतिभाजोः सौधेष्वन्धकरणतिमिरारातिरत्नाजिरेषु । सोत्यस्यादरभरमिलत्पौरसद्गौरवार्थ पुजा व्रीहिप्रथनसुमनाढयस्य चापीपचन्त ॥२९॥ भूभृत्प्रेक्ष्या ० हे जलघर ! च पुनः वरवधूतातयोः समुद्रविजय उग्रसेनयोः सौधेषु धवलगृहेषु ब्रोहिप्रथनसुमनाढयस्य तण्डुलमुद्गः गोधूमप्रमुखस्य सोत्यस्य धान्यस्य पुजा: समूहाः अपीपचन्त पाच्यन्ते स्म । किमर्थम्-अत्यावरभरमिलत्पीरसद्गौरवार्थम् अत्यादरभरेण अतिसम्मानसमूहेन मिलन्तो ये पौराः नागरिकाः तेषां सद्गौरवार्थं प्रधानगौरवार्थ प्रधानगौरवनिमित्तम् । किरूपाः पुजाःभूभृत्प्रेक्ष्या अपि पर्वतवत् विलोक्या अपि । किभूतयोः तातयोः-प्रोतिभाजोः । किंभूतेषु सौधेषु-अन्धकरणतिमिरारातिरत्नाजिरेषु अन्धकरणस्य अन्धीकुर्वतः तिमिरस्य अन्धकारस्य अरातीनां शत्रूणां रलानाम् अजिराणि अङ्गणा येषु ते तेषु ॥ २९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002122
Book TitleJain Meghdutam
Original Sutra AuthorMantungsuri
Author
PublisherParshwanath Shodhpith Varanasi
Publication Year1989
Total Pages376
LanguageHindi
ClassificationBook_Devnagari & Yoga
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy