SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ तृतीय सर्ग सितानि शुभ्राणि वसनानि वस्त्राणि यस्य सः । हे जलघर ! स नेमिः तथा तेन वस्त्रपरिधानासनोपवेशनादिप्रकारेण एवंविधं त्वामेव स्मरयति स्म स्मारयति स्म । अर्थात् लोकानाम् । किरूपं त्वाम्--स्वर्णशैले मेरुपर्वते निषण्णं उपविष्टम् । किरूपे स्वर्णशैले-नन्यावर्तावलिवलयिनि नन्द्यावर्तानां वृक्षाणां आवले: श्रेण्याः वलयं वेष्टनं विद्यते यस्य सः तस्मिन् । पुन: किंरूपं त्वाम्-सदलाकाकलापं सत् शोभनो बलाकानां बकीनां कलापः समूहो यस्मिन् स तम् ॥५॥ हे मेघ ! इसके बाद श्वेत वस्त्रधारी भगवान् श्री नेमिनाथ रत्नों से जड़ित एवं देवताओं के द्वारा दर्शनीय अर्थात् अत्यन्त सुन्दर आसन पर बैठ गये जिसे रुक्मिणी ने ही लाकर रखा था। उस समय भगवान् श्री नेमि ऐसे लग रहे थे, मानों वृक्षसमूह से युक्त स्वर्णपर्वत पर बलाका युक्त तुम्ही (मेघ) हो ॥५॥ विष्णोः पत्न्यः प्रकृतय इव स्पष्टमष्टासु काष्ठास्वष्टाप्येतं परमपुरुष कर्मणां पर्यवृण्वन् । भावान्वायिस्थितिविरचना व्यक्तसद्वेषरागा भोगामुक्ता विविधरुचयः सङ्गतात्मप्रदेशाः ॥६॥ विष्णोः पत्न्यः ० हे जलधर ! अष्टापि विष्णोः पल्यः स्पष्टं यथा स्यात् तथा एवं परमपुरुषं श्रीनेमि अष्टासु काष्ठासु दिक्षु पर्यवृण्वन् वेष्टयामासुः । किरूपाः विष्णोः पल्यः--भावान्यायिस्थितिविरचना भावानां हास्यादिकविकाराणां अन्वयिनी अनुगामिनी स्थितिः विरचना यासां ताः तथा व्यक्तसद्वेषरागाः व्यक्तः स्पष्टः सद्वेषेण शोभनशृङ्गारेण रागो यासां ताः तथा भोगामुक्ताः भोगे आमुक्ता बद्धा भोगामुक्ताः तथा विविधरुषयः विविधा अनेकप्रकारा रुचयः कान्तयो यासां ताः तथा सङ्गतात्मप्रदेशाः सङ्गता मिलिता आत्मनां परस्परं प्रदेशाः यासां ताः । का इव--कर्मणां प्रकृतय इव यथा कर्मणां प्रकृतयः परमपुरुषं आत्मानं परिवेष्टयन्ति । किंरूपाः प्रकृतयः--भावान्वायिस्थितिविरचना भावानां चित्ताभिप्रायानां अन्वायिनी अनुगमनशीला स्थितिः विरचना यासां ताः तथा व्यक्तसद्वेषरागाः भोगामुक्ताः व्यक्तं स्पष्टं यथा स्यात् तथा सद्वेषरागस्य द्वेषसहितरागस्य आभोगेन विस्तारेण आमुक्ताः बद्धाः तथा विविधरुचयः विविधा अनेकप्रकारा रुचयोऽभिलाषो याभ्यः ताः तथा सङ्गतात्मप्रदेशाः सङ्गता मिलिता आत्मनो जीवस्य प्रदेशाः अंशाः यासां ताः ।।६।। हाव भाव, परिहास आदि विचारों को जाननेवाली, सभी प्रकार के शृङ्गार करने से स्पष्टानुरागवाली, विविध कान्ति से युक्त तथा भोग Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002122
Book TitleJain Meghdutam
Original Sutra AuthorMantungsuri
Author
PublisherParshwanath Shodhpith Varanasi
Publication Year1989
Total Pages376
LanguageHindi
ClassificationBook_Devnagari & Yoga
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy