________________
तृतीय सर्ग - दानश्च्योती • हे जलघर ! सः श्रीमान्नेमिः फुल्लकङ्कोल्लिमूलं पुष्पिताशोकमूलप्रवेशं परिवृढतां स्वामितां निन्ये प्रापयामास । किरूपो नेमिः-सर्वापधननिपतमेघपुष्पः सर्वेभ्यः शरीरावयवेभ्यः निपतत् पतत् मेघपुष्पं जलं यस्य सः तथा अञ्जनाभः अञ्जनवत् कज्जलवत् आभा कान्तिः यस्य । पुनः किं लक्षणः, उत्प्रेक्ष्यते-दानश्च्योती मदश्रावी द्विप इव गज इव तथा झरन्निरः अञ्जनाद्रिः इव अञ्जनगिरिः इव तथा पिण्डीभूतं शारदं शरत्कालसम्बन्धं वियदिव आकाशमिव । किंरूपं वियत्-मनाक् स्तोकं मन्दं मेघ वर्षत् ॥२॥ ___ भगवान् श्रीनेमि एक पुष्पित अशोक के वृक्ष की मूल में (नीचे) बैठ गये श्यामवर्ण वाले श्रीनेमि के प्रत्येक अङ्ग से जलस्राव हो रहा था, ऐसा लग रहा था मानो कोई मदस्रावी गज हो अथवा ऐसा अञ्जन पर्वत हो जिससे झरने बह रहे हों या शरद् ऋतु में थोड़ा-थोड़ा जल बरसाने वाले एकत्रित मेघों से युक्त आकाश हो ॥२॥
गोप्तुं शक्ते अपि गुणवती नेव सङ्काज्जडानां गुह्यं भर्तुस्तदलमनयोः सेवयत्येष तूर्णम् । श्च्योतत्पाथःपृषतमिषतः साश्रुणो वातिसक्ते
अप्यत्याक्षोत् परिहितचरे वाससी श्वासहार्ये ॥३॥ गोप्तुशक्ते ० हे मेघ ! एषः भगवान्नेमिः तूर्ण शीघ्रं परिहितचरे पूर्व परिहिले वाससी वस्त्रे इति कारणात् अत्याक्षीत् तत्याज। किंरूपे वाससी-अतिसक्ते अपि अत्यथं लग्नेऽपि । पुनः किंरूपे, उत्प्रेक्ष्यते-रच्योतत्पाथः पृषतमिषतः क्षरज्जलकणनिभतः साश्रुणी वा अश्रुयुक्ते वा । पुनः किंरूपे वाससी-श्वासहार्ये निःश्वासहरणीये अति स्वच्छत्त्वात् । इतीति कि-इमे वाससी गुणवती अपि जडानां मूर्खाणां सङ्गात् भतुः स्वामिनः गुह्यं गोप्तुं रक्षितुं नैव शक्ते नैव समर्थो । तत् तस्मात् कारणात् अनयोः वाससोः सेवया अलं पूर्यताम् । ननु अन्योऽपि यो गुणवान् ते अपि जडानां मूर्खाणां सङ्गात् भतुः गुह्यं गोप्तुं समर्थाः न भवन्ति, तान् भर्ती त्यजति । तै: च सेवां न कारयति इति श्लेषार्थलेशः ॥३॥
मेरे ये वस्त्र गुणवान् (तन्तुवान्) होते हुए भी जल के सम्बन्ध (भींगने) के कारण गह्य अङ्गों को छिपाने में असमर्थ हैं अतः अब इनकी क्या आवश्यकता है ? ऐसा सोचकर टपकते हुए जल बिन्दुओं के व्याज से अश्रु बहाने वाले तथा शरीर से अत्यधिक चिपटे हुए अपने उन भीगे वस्त्रों को श्रीनेमि ने उसी प्रकार त्याग दिया जिस प्रकार अत्यन्त स्वामिभक्त एवं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org