SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ द्वितीय सर्ग - भ्रूविक्षेपं समदमनुवत्तत्र कृत्ये तदानों श्रेयोदृष्टि हिमरुचिरिवानेहसं प्रेयसोः स्वाः ॥ १७॥ प्रेमाधिक्यात् • हे जलद हरिः कृष्णः प्रतितरु तरुं तरु प्रति पुष्पपुरप्रचार्य - कृत्वा पुष्पसमूहचुंटनं कृत्वा प्रेमाधिक्यात् स्वयं स्वयमेव नम उपचरन् सत् कुर्वन् सन् तत्र कृत्ये श्रीनेमिसत्करणरूपे भ्रूविक्षेपं भृकुटिप्रेरणं यथा भवति समद यथा भवति तथा सत्यभामादिभार्या अनुवत् नोदयति स्म । तदानों तस्मिन्प्रस्तावे प्रथमं योज्यं । किरूपं नेमिनं— श्रेयोदृष्टि श्रेयसि मोक्षे दृष्टिर्यस्य स तं । क इव -- हिमरुचिरिव यथा हिमरुचिश्चन्द्रमाः स्वयं अनेहसं कालं उपचरन् तत्रकृत्ये तस्मिन्नुपचरणकृत्ये कार्ये स्वाः स्वकीया: प्रेयसी : रोहिण्याद्याः तारिकाः न उदयति । किरूपं अनेहसं-श्रेयो दृष्टि श्रेयसो मङ्गलस्य दृष्टिर्दर्शनं यस्मात् स तं ॥१७॥ ४५. प्रेमाधिक्य से श्रीकृष्ण ने स्वयं प्रत्येक वृक्ष से फूलों को तोड़कर ( उन्हें ) श्री नेमिनाथ के सिर तथा वक्षस्थल (छाती) पर सजाते हुए उन कल्याण दृष्टिवाले श्रीनेमिनाथ का सम्मान किया । इतना ही नहीं प्रमोदयुक्त हो उस कार्य के सम्पादन के लिए ही उन्होंने अपनी पत्नियों (सत्यभामा आदि) को भी उसी प्रकार प्रेरित किया जिस प्रकार चन्द्रमा कल्याणसूचक काल के सम्मान में रोहिणी आदि अपनी भार्याओं को प्रेरित करता है ||१७|| ताश्चानङ्गं पशुपतिदुतं गूढमार्गे शयानं सख्य राज्ये जयति पुरुहे चास्त्रजातेऽपि जाते । तत्राजय्ये त्रिभुवनपतावप्रभूष्णुं दृशैवो पाजेकृत्वा लघु ववलिरे जिष्णुपत्न्योऽभि नेमिम् ॥ १८ ॥ ताश्चानङ्ग • हे पर्जन्य च पुनः ताः जिष्णुपत्न्यः विष्णुभार्याः अभिनेमि नेमिनंप्रति लघु शीघ्र ववलिरे वलिताः । किंकृत्वा - पशुपतितं ईश्वरोतापितं अनङ्ग दृशैव दृष्या एव उपाजेकृत्वा भग्नसन्धानं कृत्वा । किरूपं अनङगं - गूढमार्गेशयानं चित्ते स्वपन्तं अन्योऽपि भग्न्यः गुप्तमार्गे शेते । क्वसति – पुरुहे प्रचुरे सख्युः मित्रस्य वसन्तस्य राज्ये जर्यातसति च पुनः अस्त्रजातेऽपि शस्त्रसमूहे ऽपि जाते उत्पन्नेसति । किंरूपं तत्र तस्मिन् त्रिभुवनपतौ श्रीनेमिनि अप्रभूष्णु असमर्थं । किंरूपे तत्र - त्रिभुवनपतो अजय्ये जेतुमशक्ये ||१८|| श्रीकृष्ण की सत्यभामा आदि पत्नियाँ, काम के सखा वसन्त के अत्यन्त वैभव के दिनों में अस्त्र (पुष्प) समूह से सुसज्जित, शिव से पीड़ित Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002122
Book TitleJain Meghdutam
Original Sutra AuthorMantungsuri
Author
PublisherParshwanath Shodhpith Varanasi
Publication Year1989
Total Pages376
LanguageHindi
ClassificationBook_Devnagari & Yoga
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy