________________
३८ ]
नेमिदूतम् अन्वयः - उज्जयन्तीम्, विगाह्य, यस्यां तीरे, उपवनलतावेश्मसु, अंगात्, सुरतजनितान्, सान्द्रान्, स्वेदबिन्दून्, मुष्णन्, शिप्रावातः, प्रार्थनाचाटुकारः, प्रियतम इव, वारनारीम्, विगलितपटाः, कुर्वन्, सेवते ।।
यस्यामिति । उज्जयन्तीं विगाह्य अवन्तीमासाद्य प्राप्येत्यर्थः । यस्यां तीरे उपवनलतावेश्मसु त्वं द्रक्ष्यसि यत् शिप्रायां नद्यां तटे उपवनवल्लीगृहेषु । अंगात्सुरतजनितान् सान्द्रान् शरीरात् स्निग्धान् स्वेदजलकणान्, मुष्णन् हरन् अपनयन् वा इत्यर्थः । शिप्रावात: शिप्रानदीपवनः । प्रार्थनाचाटुकारः प्रियतम इव रतिरचनाय मधुरभाषी [ प्रार्थनायां चाटुकार: प्रार्थनाचाटुकारः सप्तमी तत्पपुरुष ] वल्लभः यथा । वारनारी विगलितपटाः कुर्वन् वाराङ्गनामपनीतवसना विदधत्, सेवते शिप्रानदीपवनः रतिक्रीडायां पुनः प्रवृत्यर्थ मधुरभाषणशील: वल्लभ इव वाराङ्गनानां सम्भोगजन्यपरिश्रमं दूरीकरोतीति भावः ॥ ३३ ॥
शब्दार्थः -- उज्जयन्तीम्-उज्जयिनी ( अवन्ती ) को, विगाह्य-प्राप्त करके, यस्यां तीरे-शिप्रा नदी के तट पर, उपवनलतावेश्मसु-वनलता निर्मित गृहों में, अंगात् सुरतजनितान् - शरीर से सम्भोगजन्य, सान्द्रान् स्वेदबिन्दून्गाढ़ स्वेद बिन्दुओं को, मुष्णन् ---दूर करता हुआ, शिप्रावात:-शिप्रानदी की वायु, प्रार्थनाचाटुकारः-रति-क्रिया में ( पुनः प्रवृत्यर्थ ) मधुर-मधुर बोलने वाले, प्रियतम इव-प्रेमी के समान, वारनारीम्-वाराङ्गना ( वेश्या) को, विगलितपटाः कुर्वन् -वस्त्ररहित करते हुए, सेवते-सेवा करता ( रतिजन्य परिश्रम को दूर करता ) है।
अर्थः- (हे नाथ ! ) अवन्ती नगरी को प्राप्त करके ( तुम देखोगे कि) शिप्रानदी के तट पर वनलतानिर्मित गृहों में सम्भोगजन्य गाढ़ स्वेद जलकणों को सुखाता हुआ शिप्रानदी की वायु, रति-क्रीडा में ( पुनः प्रवृत्ति के लिए ) मधुर-मधुर बोलने वाले प्रेमी के समान वाराङ्गनाओं को वस्त्ररहित करते हुए, सम्भोग के परिश्रम को दूर करता है ।
यत्र स्तम्भान्मरकतमयान्देहली विद्रुमाणां,
प्रासादाग्रं विविधमणिभिनिर्मितं वामनस्य।
१. 'वामनस्य' स्थाने 'वासवेन' इति पाठान्तरम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org