SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ प्राणिवाणप्रवणहृदयो बन्धुवर्गं समग्र, हित्वा भोगान्सह परिजनैरुग्रसेनात्मजां च । श्रीमान्नेमिविषयविमुखो मोक्षकामश्चकार, स्निग्धच्छायातरुषु वर्सात रामगिर्याश्रमेषु ॥ १ ॥ विक्रमकविविरचितं नेमिदूतम् अन्वयः प्राणित्राणप्रवणहृदयः, श्रीमान्नेमिः, विषय विमुखः समग्रं बन्धुवर्गं परिजनैः सह भोगान्, उग्रसेनात्मजां च हित्वा मोक्षकामः, स्निग्धच्छायातरुषु, रामगिर्याश्रमेषु वसतिं चकार । ―― प्राणित्रणप्रवणहृदय इति । प्राणित्राण प्राणिनां प्रकृत्वाच्छाग-सारङ्गादीनां रक्षणमिति, प्रवणहृदयः - तदासक्तं चित्तं यस्य स श्रीमान्नेमिः जिन: राजी - मती विवाहार्थमुपागतस्तस्यानेक कारुण्याश्रयमृगादिवाटकमवलोक्य पश्चाद्वालितस्थस्य परमकृपाश्रयत्वं बोधितमित्यर्थः । विषयविमुखः - रागादिविमुखः प्रतिकूलमनाः । समग्रं बन्धुवर्ग - समस्तं स्वजनसमुदायं परिजनैः सह भोगान् उग्रसेनात्मजां - राजीमतीं च हित्वा परित्यज्य इत्यनेन भगवतो श्रीमान्नेमिः नीरागता बोधिता इति भावः । मोक्षकामः मोक्षं निःश्रेयसं कामयते वाञ्छयति वा इति मोक्षकामरित्यर्थः । स्निग्धच्छायातरुषु स्निग्धाः सान्द्रारछाया तरवो नमेरुवृक्षा येषु तेषु वसतियोग्येष्वित्यर्थः । 'छायावृक्षो नमेरुः स्यात्' इति च शब्दार्णवे । रामगिरेश्चित्रकूटस्याश्रमेषु वसतिम् वासं चकार चक्रे । श्लोकेऽस्मिन् काव्यलिङ्गमलङ्कारः । मन्दाक्रान्ता वृत्तम् । तल्लक्षणम् -' मन्दाक्रान्ता जलधिषsiम्भौ नतौ ताद् गुरु चेदिति ॥ १ ॥ Jain Education International - शब्दार्थ:प्राणि - जीवधारियों की, त्राण - रक्षा, प्रवण - प्रवृत्त, आसक्त, संलग्न, हृदयः - चित्त, श्रीमान्नेमिः - श्रीमान् नेमि, विषयविमुख:सांसारिक विषयवासनाओं से पराङ्मुख, समग्रम् - समस्त, बन्धुवर्गम् - स्वजनों को, परिजनैः – अनुचरवर्ग ( दास-दासियों के ), सह – साथ, भोगान् — सुखों को, उग्रसेनात्मजाम् — उग्रसेन की पुत्री ( राजीमती ), च- तथा, हित्वा - For Private & Personal Use Only www.jainelibrary.org
SR No.002117
Book TitleNemidutam
Original Sutra AuthorN/A
AuthorVikram Kavi
PublisherParshwanath Shodhpith Varanasi
Publication Year1994
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy