________________
नेमिदूतम्
१२३ संसेव्यन्ते विषमविशिखोत्तप्तया नीपवाताः;
पूर्व स्पृष्टं यदि किल भवेदंगमेभिस्तवेति ॥ ११५॥
अन्वयः - जीमूताम्भःकणचयमुचः, अस्मिन्, शिखरिणि, ते, अन्तिकात्, पुरस्तात्, नीपवाताः, सञ्चरन्तः, ( हे ) यादवेश !, पूर्वम्, एभिः, तव, अङ्गम्, स्पृष्टम्, भवेत्, यदि, किल, इति, एते, विषमविशिखोत्ततया, मया, संसेव्यन्ते ।
अस्मिन् इति। जीमूताम्भःकणचयमुचः-जीमूताम्भसाम्-मेघजलानां ये कणा:-लेशास्तान् मुंचन्तीति जीमूता० अस्मिन् शिखरिणि एतस्मिन् गिरी, यत्र तिष्ठति नेमिः, इत्यर्थः । ते अन्तिकात् नेमे: समीपात् । पुरस्तात् नीपवाताः सञ्चरन्तः प्राच्या कदम्बवायवः सञ्चरन्तरिति प्रवृत्ताः । यादवेश ! पूर्वमेभिः हे यदुपते ! प्राक् कदम्बवायुभिः । तवाङ्ग स्पृष्टं भवतः, नेमे इत्यर्थः, शरीरमामृष्टम् । भवेद्यदि किल इति स्याच्चेदिति सम्भावनायाम् एवं प्रकारेण निश्चयेन । एते विषमविशिखोत्तप्तया कदम्बवायवः 'विषमविशिखेनकामेनोप्तता-सन्तापिता । मया संसेव्यन्ते राजीमत्या आलिङ्गयन्ते ॥ ११५ ॥
शम्बार्यः - जीमूताम्भःकणचय मुचः - जलबूंदों को बरसाने वाले मेघ से युक्त, अस्मिन् - इस, शिखरिणि-पर्वत पर, ते-तुम्हारे ( नेमि के ), अन्तिकात् -समीप से, पुरस्तात्-पूर्व दिशा की ओर, नीपवाता:-कदम्बवायु, सञ्चरन्तः-बहते हैं, यादवेश-हे यदुपते ! पूर्वम् ---पहले, एभिः-- इनके द्वारा, तव-तुम्हारा, अङ्गम् -शरीर, स्पृष्टम्-स्पर्श किया गया, भवेत् यदि-होगा यदि, कदाचित् होगा, किल-यह सम्भावना अर्थ को यहाँ बतला रहा है, इति–इसलिए, इसी विचार से, एते-ये ( कदम्बवायु ), विषमविशिखोत्तप्तया-काम से सन्तप्त, मया-मेरे द्वारा ( राजीमती के द्वारा ), संसेव्यन्ते-आलिंगित की जाती है, वक्षस्थल से लगायी जाती है।
अर्थः - जलबूंदों को बरसाने वाले मेघ से युक्त इस पर्वत पर तुम्हारे समीप से कदम्बवायु पूर्व की ओर बहते हैं। हे यदुपते ! पहले इनके द्वारा तुम्हारा शरीर कदाचित् स्पर्श किया गया होगा-ऐसी सम्भावना कर ये कदम्बवायु काम से सन्तप्त मेरे ( राजीमती ) द्वारा आलिंगित किये जाते हैं । सश्चिन्त्यैवं हृदि मयि दयां धारयन् तत्प्रसीद,
स्वामिन्निर्वापय वपुरिदं स्वांगसङ्गामृतेन ।
For Private & Personal Use Only
"Jain Education International
www.jainelibrary.org