________________
१२२ ।
नेमिदूतम्
( सन् ), अशक्तः, मनोभूः, तद्वैरात्, माम्, अबलाम्, इषुभि:, हन्ति, इति, तप्तेषु, तरु किसलयेषु स्रस्तरे, निशि, चिन्तयन्त्या मम, दृग्भ्याम्, मुक्तास्थूलाः, अश्रुलेशाः पतन्ति ।
"
मन्नाथेनेति । मन्नाथेन रूपलक्ष्म्या राजीमत्याः प्राणनाथेन रूपकान्त्या तपोभिश्च । ध्रुवमवजित: निश्चितमेव पराजितः सन् । अशक्तः मनोभूः अक्षमः असौ कामदेवः मदनः वा । तद्वैरात् मामबलां नेमेः मात्सर्याद् द्वेषाद् वा विरहपीडितां राजीमतीम् । इषुभिः हन्ति स्वबाणैः पीडयन्ति सन्तापयन्ति वा । इति तप्तेषु तरुकिसलयेषु स्रस्तरे अतएव वृक्षनवपल्लवेषु [ तरुणां किसलयानितरु किसलयानि ( ष० तत् ० ) तेषु ] इव तल्पोपरि । निशि चिन्तयन्त्या रात्रौ स्मरन्त्या । मम दुग्भ्यां राजीमत्याः लोचनाभ्याम् । मुक्तास्थूला : अश्रुलेशाः मौक्तिकपीवराः अस्रबिन्दवः वाष्पकणा इत्यर्थः [ मुक्ता इव स्थूला :- मुक्तास्थूला: ( उपमित कर्मधा० ), अश्रुणां लेशाः - अश्रुलेशाः ( ष० तत् ) ], पतन्ति स्खलन्ति ॥ ११४ ॥
शब्दार्थः मन्नाथेन - मेरे स्वामी नेमि से, रूपलक्ष्म्या - रूपकान्ति में, तपोभिः - तपस्या में, ध्रुवम् - निश्चित रूप से, अवजित: ( सन् ) - पराजित होकर, अशक्तः - असमर्थ, मनोभूः -- कामदेव, तद्वैरात् - तुमसे द्वेष रखने के कारण, शत्रुता के कारण, माम्- मुझ ( राजीमती ), अबलाम् - विरहिणी को, इषुभि: -- बाणों से, हन्ति--पीड़ा देता है, इति-- इसलिए, तप्तेषु - कष्टदायक, तरु किसलयेषु - वृक्षों के नवपल्लव की तरह, स्रस्तरे - शय्यापर, निशि- - रात में, चिन्तयन्त्या — स्मरण करते हुए, मम - मेरी, राजीमती की, दृग्भ्याम् — आँखों से, मुक्तास्थूला : - मोती की तरह बड़ी-बड़ी, अश्रुलेशाः - आँसू की बूंदें, पतन्ति - गिरती हैं, गिरती रहती हैं ।
अर्थः ( हे नाथ ! ) मेरे स्वामी से रूपकान्ति तथा तपस्या में निश्चित रूप से पराजित होकर असमर्थ यह कामदेव तुमसे द्वेष रखने के कारण मुझ ( राजीमती ) विरहिणी को ( अपने ) बाणों से सन्तापित करता है, जिससे कष्टदायक वृक्षके नवपल्लव की तरह कोमल शय्या पर रात में ( तुम्हारा ) स्मरण करते हुए मेरी आँखों से मोती की तरह बड़ी-बड़ी आँसू
की बूंदें गिरती रहती हैं ।
अस्मिन्नेते शिखरिणि मया यादवेशान्तिकात्ते, जीमूताम्भःकणचयमुचः सञ्चरन्तः पुरस्तात् ।
S
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org