________________
परिशिष्ट (तृतीय अध्याय)-ख
पादटिप्पण- २९१
अथ विकल्पेनाविकल्पस्य सहस्रांशुना तारानिकरस्येव तिरस्कारान्न तथा निर्णयस्तर्हि विकल्पस्याप्यविकल्पेन तिरस्कारात् प्रतिभासनिर्णयो न स्यात् ।
अथ विकल्पस्य बलीयस्त्वादविकल्पस्य च दुर्बलत्वात् तेन तस्य तिरस्कार :, ननु कुतो विकल्पस्य बलीयस्त्वम् ? प्रचुरविषयत्वादिति चेत्, न, अविकल्पविषय एव प्रवृत्त्यभ्युपगमात् अन्यथाऽस्य गृहीतग्राहित्वासंभवात् । निर्णयात्मकत्वात् तस्य तदात्मकत्वमिति चेत् ;ननु तस्य किं स्वरूपे निर्णयात्मकत्वम्, उतार्थरूपे ? न तावत् स्वरूपे “सर्वचित्तचैत्तानामात्मसंवेदनं प्रत्यक्षं” (न्यायबिन्दु ,१.१०) इत्यस्य विरोधात् । एवमपि तत्र तस्य निर्णयात्मकत्वे चक्षुरादिज्ञानं स्वपरयोस्तदात्मकं किं न भवेत् ? तथा च स्वार्थाकाराध्यवसायाधिगमश्चक्षुरादिचेतसां सिद्ध इति केन कस्य तिरस्कार :? तन्न विकल्प : स्वरूपे निर्णयात्मकोऽभ्युपगन्तव्यः।
अथाऽर्थे तस्य निर्णयात्मकत्वम :नन्वेवमेकस्य विकल्पस्य निर्णयानिर्णयस्वभावं रूपद्वयमायातम् तच्च परस्परं तद्वतश्च यद्येकान्तो भिन्नमभ्युपगम्यते समवायादेरनभ्युपगमात् सम्बन्धासिद्धेः 'बलवान् विकल्पो निर्णयात्मकत्वात् ' इत्यस्यासिद्धि : ।.
अथ निर्णयानिर्णयस्वभावयोरन्योऽयं तद्वतश्च कथञ्चितादात्म्यं तर्हि यत् स्वात्मनि अनिर्णयात्मकं बहिरर्थे च निर्णयस्वभावं रूपं तत्साधारणमात्मानं प्रतिपद्यते चेद् विकल्पः स्वरूपेऽपि सविकल्पकः प्रसक्तः अन्यथा निर्णयस्वभावतादात्म्यायोगात् । न च स्वरूपमनिश्चिन्वन् विकल्पोऽर्थ निश्चिनोति इतरथाऽगृहीतस्वरूपमपि ज्ञानमर्थग्राहकं भवेदिति न नैयायिकमतप्रतिक्षेपः । यथा च परज्ञातमननुभूतत्वान्नात्मनो विषयस्तथा विकल्पस्य स्वरूपमनिश्चितत्वान्नात्मनो विषय इति समानं पश्याम : । न च तस्यापि विकल्पान्तरण निश्चयः तस्यापि विकल्पान्तरण निश्चयापत्तेरनवस्थाप्रसक्तेः।- अतस्तदाकारविषयीकरणासंभवाद् विकल्प्यार्थाभावतो दृश्यविकल्प्यावर्थावेकीकृत्य प्रवर्तत इत्ययुक्तमभिधानम् । ततो न बलवान् विकल्प इति कथं तेनाविकल्पतिरस्कार इति अविकल्पनिश्चयस्तदैव भवेत् न चैवमतो नाविकल्पस्य विकल्पेनैक त्वाध्यवसाय : ।-तत्त्वबोधविधायिनी, पृ.५००-५०२ पादटिप्पण - २९२
किञ्च,विकल्पेऽविकल्पस्यैकत्वेनाध्यारोप इति कुतो निश्चीयते ? अस्पष्टास्वलक्षणवाहिणि स्पष्टस्वलक्षणग्राहित्वस्य प्रतीतेस्तदध्यारोपावगतिरिति चेत् ; ननु यदि नाम तत्र तत्प्रतीति : अविकल्पारोपस्तु कुत : ? स्पष्टत्वादेस्तद्धर्मस्य तत्र दर्शनादिति चेत् ; तद्धर्मः स्पष्टत्वादिरित्येतदेव कुतः? तत्र दर्शनादिति चेत् ; अत एव विकल्पधर्मोऽप्यस्तु अन्यथाऽविकल्पस्यापि मा भूत् । न च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org