________________
४०८
बौद्ध प्रमाण-मीमांसा की जैनदृष्टि से समीक्षा
नापि तद्बाधकप्रमाणसद्भावात् तस्यैवासिद्धेः । तथाहि तद्बाधकमध्यक्षम् अनुमानं वा प्रकल्प्येत प्रमाणान्तरानभ्युपगमात् । न तावदध्यक्षं तद्बाधकं संभवति अविकल्पप्रसाधकस्य तस्य तद्बाधकत्वात न च निरंशक्षणिकैकपरमाणुसंवेदनं स्वसंवेदनाध्यक्षत : सिद्धमिति प्राक प्रतिपादितमिति नाध्यक्षं तद्बाधकम् । नाप्यनुमानं तद्बाधकं संभवति अध्यक्षाप्रवृत्तौ तत्पूर्वकस्य तस्यापि तत्राप्रवृत्ते : ।-तत्त्वबोधविधायिनी,पृ.४९९ एवं ५१५ पादटिप्पण - २९०
न च विकल्पाविकल्पयोर्मनसोर्युगपद्वृत्ते : क्रमभाविनोर्लघुवृत्तेर्वा एकत्वमध्यवस्यति जनस्तवेत्यविकल्पाऽध्यक्षगतं वैशधं विकल्पे सांशस्वार्थाध्यवसायिन्यध्यारोपयतीति वैशधावगति :एकस्यैव तथाभूतस्वार्थनिर्णयात्मनो विशदज्ञानस्यानुभूतेरननुभूयमानस्याप्यपरनिर्विकल्पकस्य परिकल्पने बुद्धेश्चैतन्यस्यापरस्य परिकल्पनाप्रसङ्ग इति सांख्यमतमप्यनिषेध्यं स्यात् ।
किञ्च सविकल्पाविकल्पयो : क : पुनरैक्यमध्यवस्यति ? न तावदनुभवो विकल्पेन आत्मन ऐक्यमध्यवस्यति व्यवसायविकलत्वेनाभ्युपगमात् तस्य अन्यथा प्रान्तताप्रसङ्गात् । नापि विकल्पो ऽविकल्पेन स्वस्यैक्यमध्यवस्यति तेनाविकल्पस्याविषयीकरणात् अन्यथा स्वलक्षणगोचरताप्राप्तेः अविषयीकृतस्य चान्यत्राध्यारोपाभावात् न ह्यप्रतिपन्नरजत :शुक्तिकायां रजतमध्यारोपयितुं ‘रजतमेतत् ' इति समर्थ : । न च यथेश्वरादिविकल्पस्तद... तस्यासिद्धेश्च । न हि मरीचिकाजलरूपतयाऽध्यवसिता तद्रूपतयाऽसिद्धार्थक्रियोपयोगिन्युपलब्धा एवमनुभवोऽपि विकल्परूपतयाऽध्यवसितस्तथाऽसिद्धो नार्थक्रियोपयोगी नात :किञ्चित् सिध्यति । नापि विकल्पः तस्याऽवस्तुविषयत्वाभ्युपगमात् । यदि पुनर्विकल्पस्तद्रूपमात्मानमध्यवस्येत् तर्हि परमार्थविषयता तस्येति “विकल्पोऽवस्तुनिर्भासाद् विसंवादादुपप्लव ” इति असङ्गतं स्यात् । अत एव न विकल्पान्तरमपि तमध्यवस्येत् तस्यापि तुल्यदोषत्वात् ।
किञ्च तयोरैक्यं व्यवस्यतीत्यत्र यदि विकल्पं निर्विकल्पकतया मन्यते व्यवहारी तदा निर्विकल्पकमेव सर्व ज्ञानमिति विकल्पव्यवहारोच्छेदादनुमानप्रमाणाभाव : । अथाविकल्पकं विकल्पतया तदा सविकल्पमेव सर्व प्रमाणमिति अविकल्पप्रत्यक्षवादो विशीर्येत । यथा हि प्रज्ञाकराभिप्रायेण मणिप्रभायां मणिज्ञानं ‘य एव मणिर्मया दृष्ट : स एव प्राप्त : ' इत्यभिमानिन : प्रत्यक्षं प्रमाणम् अन्यथाऽभ्यासदशायां भाविनि दृश्यप्राप्ययोरेकत्वाध्यवसायात् प्रत्यक्षमेव प्रमाणमिति न भवेत्.. यथा हि दृश्यं प्राप्यारोपाप्राप्यम् तथाऽविकल्पो विकल्पारोपाद् विकल्पो भवेत् न्यायस्य समानत्वात् । तत्वबोधविधायिनी, पृ.४९९-५००
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org