________________
३९२
बौद्ध प्रमाण-मीमांसा की जैनदृष्टि से समीक्षा
व्याहृतं सकलमानसमानं लक्ष्म तन्न घटनामुपयाति ॥
अध्यवसायस्य सुगतशासने वस्तुविषयत्वाभावात् । अवस्तुनश्च प्राप्तुमशक्यत्वात् । तदुक्तम् " यथाध्यवसायमतत्त्वात् यथातत्त्वं चानध्यवसायात्” इति । मूलभूतवस्तुप्राप्तिः पुनरंधकंटकीयन्यायमनुसरति । नहि तदन्यतरेणापि प्रमाणेन दृष्टं यद्गत्वा प्राप्यते । सन्तानप्राप्त्या तत्प्राप्तिरित्यपि न पेशलम् । क्षणक्षयिपरम्परातः पृथग्भूतस्य पारमार्थिकस्य सन्तानस्य ताथागतैरस्वीकरणात् । अथापारमार्थिकेऽपि सन्ताने सति संवृतिमाहात्म्यात् प्रमाणलक्षणमिदं निर्वक्ष्यति । यथोक्तम् “सांव्यावहारिकस्य चैतत् प्रमाणस्य लक्षणं । वस्तुतस्त्वनाद्यविद्यावासनारोपितग्राह्यग्राहकादिभेदप्रपञ्चं ज्ञानमात्रमेवेदमिति किं प्राप्यते किं वा प्रापयति” इति । तदिदं स्वसमयोद्घोषणमात्रं न कञ्चन प्राकरणिकमर्थं समर्थयते । अविचारितरम्या हि प्रतीतिः संवृतिरिति सम्मतं सौगतानाम् । या च न विचारगोचरे विचरति । तथापि प्रमाणलक्षणनिर्वहणमिति महत्कैतवम् । अविद्यावासनानिर्मितश्च न प्राह्यग्राहकादिव्यवहारः । किन्तु तात्त्विक एवेति ज्ञानाद्वैतविघटनप्रद्यट्टके प्रकटयिष्यते । यदि चापरमुत्तरप्रकारमनवधारयद्भिः सांवृत एव संतानः परिकल्प्यते, हन्त तर्हि नैयायिकादिसम्मता जात्यवयविसमवायप्रभृतयोऽपि संवृतिनिर्मितमूर्तयः किमिति न परिकल्प्यन्ते । वृत्तिविकल्पादिबाधकविधुरीकृतत्वादिति यदि मतं तर्हि भेदादिविकल्पैः सन्तानस्य प्रतिहन्यमानत्वात् तत्रापि तुल्यः पन्थाः । एवं च सति
विसंवादापेतं यदिह किमपि ज्ञानमखिलम् । प्रमाणं तद्वौद्धैरभिहितमिदं तु प्रतिहतम् ॥
Jain Education International
- वादिदेवसूरि, स्याद्वादरत्नाकर, पृ० ३७-३८
पादटिप्पण - १६०
संवृत्या लक्ष्यलक्षणभाव इति चेत् केयं संवृतिर्नाम । उपचार इति चेत् अस्ति तर्हि मुख्यः क्वचिल्लक्ष्यलक्षणभावः । क्वचिन्मुख्यस्यासत्तायामुपचारस्याऽप्रवृत्तेः । विचारतोऽनुपपद्यमाना विकल्पबुद्धिः संवृतिरिति चेत् कथं तया लक्ष्यलक्षणभावः । तस्य तत्रावभासनादिति चेत् । सिद्धस्तर्हि बौद्धो लक्ष्यलक्षणभावस्तद्वदबौद्धोऽपि किं न सिध्येत् । विकल्पाद्वहिर्भूतस्य तस्यासम्भवादिति चेत् । न तस्यासम्भवे तादृरविकल्पविषयत्वायोगात् । न च सकलो विकल्पविषयोऽसम्भवन्नेव ।. सर्वो विकल्पोऽसम्भवद् विषयो विकल्पत्वात् मनोराज्यादिविकल्पवदिति चेत् । सर्वं प्रत्यक्षमसम्भवद्विषयं प्रत्यक्षत्वात् केशोन्दुकप्रत्यक्षवदिति किं न स्यात् । प्रत्यक्षाभासोऽसम्भवद्विषयो दृष्टो न प्रत्यक्षमिति चेत् । तर्हि विकल्पाभासोऽसम्भवद्विषयो न विकल्प इति समानः परिहारः । यतः प्रवर्तमानोऽर्थक्रियायां न विसंवाद्यते तत्सम्यक्प्रत्यक्षमिति चेत् । यतो विकल्पादर्थं परिच्छिद्य प्रवर्तमानोऽर्थक्रियायां न विसंवाद्यते स सत्य इति किं नानुम
For Private & Personal Use Only
www.jainelibrary.org