________________
परिशिष्ट (द्वितीय अध्याय)-क
३९१
स्वरूपेण तु तस्याऽसत्त्वात् प्राप्त्यविषयतैवेति न धर्मोत्तरमतपर्यालोचनया किञ्चित् परमार्थतः प्रदशितार्थप्रापकं प्रमाणं संभवति अतः संवादकत्वमपि तन्मतेन प्रमाणलक्षणमयुक्तम् ।
-तत्त्वबोधविधायिनी, पृ. ४७१ पादटिप्पण - १५५
तथाहि ते प्राहुः - प्रमाणमविसंवादिविज्ञानमिति । अविसंवादकत्वं चार्थप्रापकत्वमुच्यते । तच्च प्रत्यक्षानुमानयोरुभयोरप्यस्तीति सामान्यलक्षणम् । तत्र प्रत्यक्षस्य स्वप्रदर्शितस्वलक्षणक्षणस्य क्षणिकत्वेन प्राप्त्यसम्भवेऽपि तत्सन्तानप्राप्तेः सम्भवात् सन्तानाध्यवसायजननमेव प्रापकत्वम्। द्विविधो हि प्रत्यक्षस्य विषयो ग्राह्योऽध्यवसेयश्च । तत्र ग्राह्यक्षण एकः सकलसजातीयविजातीयव्यावृत्तः । स्वलक्षणाख्यस्य तत्र परिस्फुरणात् । इदमेव ग्राह्यत्वमर्थस्य यत् स्वाकारज्ञानजनकत्वम्। इदमेव च ग्राहकत्वं ज्ञानस्य यदाकारतयात्मलाभः । अध्यवसेयः पुनः सन्तानः । बहवश्च स्वलक्षणलक्षणा उपादानोपादेयभावमापन्नाः सन्तानः । तस्य चाध्यवसेयत्वमगृहीतस्यापि प्रवृत्तिविषयत्वम्। अध्यवसेयार्थसन्तानापेक्षयैव च प्रत्यक्षस्य प्रामाण्यव्यवस्था स्वलक्षणस्य प्रापयितुमशक्यत्वात् ।...तस्मात् सन्तानाध्यवसाये सत्यविसंवादकत्वेन प्रत्यक्षस्य प्रामाण्यम् ।...प्रत्यक्षजन्यविकल्पेन सन्तानाध्यवसितत्वात् प्रत्यक्षेणाध्यवसितः स इत्यभिधीयते। ___ अनुमानस्य पुनरपारमार्थिकसामान्यविषयतया प्रान्तत्वेऽपि प्रणालिकया मूलवस्तु लक्षणप्रभवत्वान्मणिप्रभायां मणिबुद्धिरिव वस्तुप्राप्त्या प्रापकत्वम् । यतस्तस्यापि ग्राह्याध्यवसेयतया विषयो द्विविधः । तत्राध्यवसेयं स्वलक्षणम् । ग्राह्यस्तुविषयो सामान्यमेव । तत्पुनर्बहिस्तादात्म्येनाध्यवसीयमानो बुझ्याकारो वा। अलीकबाह्यं वाऽन्तर्बहिरूपम् । परमार्थतस्तु न कश्चिदनुमानविषयः।--स्वप्रतिभासेऽनर्थेऽर्थाध्यवसायेन प्रवृत्तत्वात् प्रान्तं च। अनुमानं हि स्वात्मनि प्रतिभातेऽनर्थे सामान्यस्वरूपेऽर्थत्वं स्वलक्षणरूपतामारोप्य प्रवर्तत इति प्रान्तम् । तथापि स्वभावकार्यलिङ्गदर्शनजन्यतया पारम्पर्येण स्वभाविनि कारणे च प्रतिबद्धत्वात् तत्प्रापकतयार्थाविसंवादकत्वेन प्रमाणम्। तदुक्तम् . “अतस्मिंस्तद्ग्रहो प्रान्तिरपि सम्बन्धतः प्रमा” इति । अनुमानविकल्पान्तराणां नियतार्थप्रतिबन्धाभावादप्रापकत्वेनाविसंवादकत्वानुपपत्तेरप्रामाण्यम्। यथाध्यवसितप्रापकं च प्रमाणम् । अतः पीतशंखादिनाहिज्ञानानां शंखमात्रादिप्राप्तौ सत्यामपि न प्रामाण्यं यथाध्यवसितस्याप्राप्तेः। अध्यवसितो हि पीतः शंखः प्राप्यते न तु श्वेतः। तस्माद् यथाध्यवसितार्थप्रापकमविसंवादिज्ञानं प्रमाणमिति स्थितम् ।
-वादिदेवसूरि, स्याद्वादरत्नाकर, पृ० ३६-३७ पादटिप्पण -१५७
एतदध्यवसिताखिलवस्तुप्रापकत्वमविसंवदनं यत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org