________________
१२०
मानतुंगाचार्य और उनके स्तोत्र
त्वन्नाममन्त्रमनिशं मनुजाः स्मरन्त:
सद्यः स्वयं विगतबन्धभया भवन्ति ।।४२।। मत्तद्विपेन्द्र-मृगराज-दवानलाहि
सङ्ग्राम-वारिधि-महोदर-बन्धनोत्थम् । तस्याशु नाशमुपयाति भयं भियेव
यस्तावकं स्तवमिमं मतिमानधीते ।।४३।। स्तोत्रस्रजं तव जिनेन्द्र ! गुणैर्निबद्धाम्
भक्त्या मया रुचिरवर्णविचित्रपुष्पाम् । धत्ते जनो य इह कण्ठगतामजस्रं
तं मानतुङ्गमवशा समुपैति लक्ष्मीः ।।४४।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org