________________
मूलपाठाः
Jain Education International
विश्वं जिघत्सुमिव सम्मुखमापतन्तम्
त्वन्नामकीर्त्तनजलं शमयत्यशेषम् ।।३६ ।।
रक्तेक्षणं समदकोकिलकण्ठनीलं
क्रोधोद्धतं फणिनमुत्फणमापतन्तं । आक्रामति क्रमयुगेन निरस्तशङ्क
स्त्वन्नामनागदमनी हृदि यस्य पुंसः ।। ३७ ।।
वल्गत्तुरङ्गगजगर्जितभीमनाद
माजा बलं बलवतामरिभूपतीनाम् ।
उद्यद्दिवाकरमयूखशिखाऽपविद्धं
त्वत्कीर्तनात्तम इवाशु भिदामुपैति ।। ३८ ।।
कुन्ताग्रभिन्नगजशोणितवारिवाह
वेगावतारतरणातुरयोधभीमे । युद्धे जयं विजितदुर्जयजेयपक्षा
स्त्वत्पादपङ्कजवनाश्रयिणो लभन्ते । । ३९ ।।
अम्भोनिधौ क्षुभितभीषणनक्रचक्रपाठीनपीठभयदोल्बणवाडवानौ ।
रङ्गत्तरङ्गशिखरस्थितयानपात्रा
-
स्त्रासं विहाय भवतः स्मरणाद् व्रजन्ति । ।४० ।।
उद्भूतभीषणजलोदरभारभुग्नाः
शोच्यां दशामुपगताश्चयुतजीविताशाः । त्वत्पादपङ्कजरजोऽमृतदिग्धदेहाः
मर्त्या भवन्ति मकरध्वजतुल्यरूपाः ।।४१।
आपादकण्ठमुरुशृङ्खलवेष्टिताङ्गा गाढं बृहन्निगडकोटिनिघृष्टजङ्गाः ।
For Private & Personal Use Only
११९
www.jainelibrary.org