________________
मूलपाठा:
Jain Education International
योगीश्वरं विदितयोगमनेकमेकम्
ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ।। २४ ।
बुद्धस्त्वमेव विबुधार्चितबुद्धिबोधात्
त्वं शंकरोऽसि भुवनत्रयशंकरत्वात् । धाताऽसि धीर! शिवमार्गविधेर्विधानात्
व्यक्तं त्वमेव भगवन् ! पुरुषोत्तमोऽसि ।। २५ ।।
तुभ्यं नमस्त्रिभुवनाऽर्तिहराय नाथ !
तुभ्यं नमः क्षितितलाऽमलभूषणाय । तुभ्यं नमस्त्रिजगतः परमेश्वराय
तुभ्यं नमो जिन ! भवोदधिशोषणाय ।। २६ । को विस्मयोऽत्र ? यदि नाम गुणैरशेषै
स्त्वं संश्रितो निरवकाशतया मुनीश ! । दोषैरुपात्तविविधाश्रयजातगर्वैः
स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि ।।२७।।
उच्चैरशोकतरुसंश्रितमुन्मयूख
माभाति रूपममलं भवतो नितान्तम् । स्पष्टोल्लसत्किरणमस्ततमोवितानम्
बिम्बं रवेरिव पयोधरपार्श्ववर्ति ।। २८ ।। सिंहासने मणिमयूखशिखाविचित्रे
विभ्राजते तव वपुः कनकाऽवदातम् । बिम्बं वियद्विलसदंशुलतावितानम्
तुंगोदयाद्रिशिरसीव सहस्ररश्मेः ।। २९ ।।
कुन्दावदातचलचामरचारुशोभं
विभ्राजते तव वपुः
कलधौत- -कान्तम् ।
For Private & Personal Use Only
११७
www.jainelibrary.org