________________
૨૯૭
શ્રી પુંડરીકશિખરીસ્તોત્ર' અપનામ “શ્રી શત્રુંજય મહાતીર્થપરિપાટિકા'
श्रीपुण्डरीकशिखरिस्तोत्रम् (श्रीशत्रुञ्जयचैत्यपरिपाटी)
(वसन्ततिलका) ननेन्द्रमण्डलमणीमयमौलिमालामीलन्मरीचिचयचुम्बितपादपीठम् । नत्वा युगादिजिनमादिमतीर्थराजं शत्रुञ्जये गिरिपतिं प्रयतः स्तवीमि ॥१॥ पुण्यं चिनोति नरजन्मफलं तनोति पापं लुनाति नयनानि सतां पुनाति । दूरेऽपि दर्शनपथं समुपागतो यः श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥२॥ श्रीपादलिप्तपुरपावनपार्श्वनाथ श्रीवर्धमानजिनराजयुगं नमन्ति । नेमीश्वरं च भविका यदधोविभागे श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥३॥ श्रृङ्गं च यस्य भविका अधिरुढवन्तः प्रासादपङ्किममलामवलोकयन्तः । लोकोत्तरं किमपि सौख्यमहो ! लभन्ते श्रीमानसौ विजयतां गिरिपुण्डरिकः ॥४॥ लक्षत्रयीविरहिता द्रविणस्य कोटीस्तिस्रो विविच्य किल वाग्भटमन्त्रिराजः । यस्मिन्युगादिजिनमंदिरमुद्दधार' श्रीमानसौ विजयतां गिरिपुण्डरीकः ।।५।। कर्पूरपूरधवला किल यत्र द्रष्टा मूर्तिः प्रभोर्जिनगृहे प्रथमप्रवेशे । सम्यग्दृशाममृतपारणमातनोति२ . श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥६॥
नि. . मा. १-3८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org