________________
જ્ઞાનચંદ્રકૃત સંસ્કૃતભાષા-નિબદ્ધ ‘શ્રીરૈવતગિરિતીર્થસ્તોત્ર’
Jain Education International
चैत्यं चिरंतनमिदं मदनोद्दधार श्रीसज्जनः सुकृतसज्जनसज्जधर्यः । सौवर्ण-कुंभ- मणि- तोरण - रत्नदीप यदैवताद्रि-कटके पटकायतीव ॥८॥
रत्नानि तान्यपि चतुर्दश यत्पुरस्तानूनंजरात्तृणमुलापति न स्पृशंति । विश्वकरत्न भवता तवतात्मजेन मन्ये समुद्रविजयेन जितः समुद्रः ||९||
माहात्म्यस्य भणितुं भुवनातिशायि श्रीरैवतस्य न तु वागधिपः किमीशः । नेमीश्वरस्य विजिनांतर वैरिणोपि प्रेयानभूत् समवसृत्यणुबंधतो यः ||१०|| कल्याणकत्रयजिनालय भूत्रपि नेमिं नमामिं चतुराननमंजनाभं । देवेन्द्रमण्डप जिननाथ दिव्य कुण्डं दौर्गत्यतापमलहारि गजेन्द्रपादं ||११||
शत्रुञ्जयाभिध गिरीश कृतावतारं श्रीवस्तुपालसचिवेशविहारसारं । सम्मेतचैत्य भवनेन युगादिदेवमष्टापदेन च निविष्टमहं नमामि ॥ १२ ॥
राजीमती किल स निर्झर कन्दरायामणि नेम-विरहादि -वशो चयन्ती । अंबेव यात्रकजने दुरितापहन्त्री दिव्यांबिका जयति कामित - कामधेनु ॥१३॥
वंदेऽवलोकशिखरे तमरिष्टनेमि वैषम्यमाक् शिखरशेखरतामितौ तौ । प्रद्युम्न शाम्ब मुनिकेवलिनो दिशंता वुच्चैर्महोदयपदं तु यथा तथेति ॥ १४ ॥
* For Private & Personal Use Only
૨૬૧
www.jainelibrary.org