________________
જૈત્રસૂરિશિષ્યકૃત “વીતરાગસ્તુતિ
૨૫૫
वीतरागस्तुति
(भुजंगप्रयात छन्दः) शान्तं शिवं शिवपदस्य परं निधानं
सर्वज्ञमीशममलं जितमोहमानम् । संसारमारवपथाद्भुतनिर्जरागं
पश्यन्ति पुण्यरहिता न हि वीतरागम् ॥१॥ अव्यक्तमुक्तिपदपंकजराजहंसं
विश्वावतंसममरै विहितप्रशंसम् । कंदर्पभूमिरुहभंजनमत्त [ रागं ? नागं]
पश्यन्ति पुण्यरहिता न हि वीतरागम् ॥२॥ दुःकर्मभीत जनताशरणं सुरेन्द्रै
निश्शेषदोषरहितं महितं नरेन्द्रैः । तीर्थंकरं भुवि कदापि न भुक्तिभाजं
पश्यन्ति पुण्यरहिता न हि वीतरागम् ॥३॥ दान्तं नितान्तमतिकान्तननन्तरूपं
योगीश्वरैः किमापि संविदितश्च रूपम् । संसारवारि र]निधिमंथनमन्दरागं
पश्यन्ति पुण्यरहिता न हि वीतरागम् ॥४॥ संसारवारिनिधितारणयानपात्रं
ज्ञानेकपात्रमतिमात्रमनोन्यगात्रम् । दुर्वारवारघनवातनिशातनागं
पश्यन्ति पुण्यरहिता न हि वीतरागम् ॥५॥ कल्याणवल्लिनवपल्लवनाम्बुवाहं
त्रैलोक्यलोकनयनैकमुधाप्रवाहम् । सिद्धयङ्गनावरविलासनिबद्धरागं
पश्यन्ति पुण्यरहिता न हि वीतरागम् ॥६॥ दारिद्रदुःखवनदावदुरन्तनीरं मायामहीस्फुटविदारणसारसीरम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org