________________
२४८८
નિર્ચન્થ ઐતિહાસિક લેખ-સમુચ્ચય-૧
श्रीसागरचन्द्रसूरिविरचितं विविधच्छन्दोऽलङ्कृतं क्रियागुप्तकं च
श्रीचतुर्विंशतिजिनस्तवनम्
(मालिनी वृत्तम्) जगति जडिमभाजि व्यञ्जितापूर्वनीते !
प्रथमजनिततीर्थाभ्युनते ! नाभिसूते । जिन' ! वृजिनवितानध्वंसिनी तावकीन क्रमकमलनमस्यां 'काश्चनस्याभिलाषम् ॥१॥
(शिरवरिणी वृत्तम्) अपेतः 'कर्माब्धेरचलपरिचर्यापरिचयात्
प्रतिष्ठामापन्नः शिवमजरमासाद्य परमम् । रजन्याः स्वामीव त्वमजित ! जिनास्मासु तमसः, समुच्छ्रायं छायादलिततपनीयाम्बुजरुचे ! ॥२॥
(वसन्ततिलका छन्दः) श्रीशम्भव ! त्रिभुवनाधिपते ! रयेण
व्यालोलमिन्द्रियबलं बलवन्निगृह्य । निर्मूलितोच्चतममोहमहीरुहेण गम्भीर एष भगवन् ! भवता भवाब्धिः ॥३॥
(मञ्जुभाषिणी) भवतः स्वभावसुभगाङ्गचङ्गिम
व्यवधानभीरुमनसो ऽभिनन्दन ! मरुतां गिरौ जननमज्जनोत्तरं नवबन्धुरा"भरणडम्बरं सुराः ॥४॥
(नोटकम्) यदि सिद्धिवधूपरिरम्भविधौ
त्वरितोऽसि ततः सुमते ! सुमतिम् । विनिबर्हणमुल्बणमोहतते_स्तुहिनामलसद्गुणकेलिगृहम् ॥५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org