________________
सामान्य श्रुतधर काल खण्ड २ ] उद्योतनसूरि
[ १०५ ३२. ततः श्री रविप्रभसूरिः, ३३. ततः श्री यशोभद्रसूरिः, तस्थ (स्य) च सुविहित मार्गाचरणात् सुविहितपक्ष इति प्रसिद्धिर्जाताः'
____३६. तत्पट्टे श्री नेमिचन्द्रसूरि, ३७. तत्पट्टे श्री उद्योतनसूरिः अस्माच्चतुरशीति गच्छस्थापना जाता, तत्स्वरूपं यथा—एकदा श्री उद्योतनसूरि महाविद्वांसं शुद्ध क्रियापात्रं च विज्ञाय अपरेषां त्र्यशीति संख्यानां स्थविराणां त्र्यशीतिशिष्याः पठनार्थं समागतास्तान् श्री गुरू:सद्रीत्या पाठयति तस्मिन्नवसरे अभोहरदेशे स्थविर मण्डल्यां वृद्धस्य जिनचन्द्राचार्यस्य चैत्यवासिनः शिष्यो वर्द्वमाननामा सिद्धांतमवगाहमानश्चतुरशीत्याशातनाधिकारे आगते सति गुरु प्रत्येवमुक्तवान् भो स्वामिन् ! चैत्ये निवसतामस्माकमाशातना न टलति ततोऽयं व्यवहारो मे न रोचते इत्युक्ति श्रुत्वा गुरुणा यथातथा विप्रतारितोऽपि अयं स्वश्रद्धातो न परिभ्रष्टस्ततः श्रीउद्योतनसूरिं शुद्धक्रियावंतं श्रुत्वा तत्पार्वे समागत्य तस्यैव शिष्यो जातस्तदुपसंपदं च ग्हीतवान् । ततः श्री गुरुभिर्योगादिकं वाहयित्वा सर्वे सिद्धान्ताः पाठिता : । क्रमेण योग्यं ज्ञात्वा चार्य-पदं दत्वा गच्छवृद्ध यादि लाभं विज्ञाय उत्तराखण्डे विहारार्थमाज्ञा दत्ता। ततो वर्द्धमानाचार्योऽपि गुर्वादेशम् स्वीकृत्य तत्र गतः । अथ श्री उद्योतनसूरि स्थ्यशीतिशिष्यः परिवृतो मालवकदेशात् संघेन सार्द्ध शत्रुजये गत्वा ऋषभेश्वरमभिवन्द्य पश्चाद्वलमानो रात्रौ सिद्धवटस्याधोभागे स्थितस्तत्र मध्यरात्रिसमये आकाशे रोहिणीशकट मध्येवृहस्पति प्रवेशं विलोक्य एवमुक्तवान् साम्प्रतमीदृशी वेला विद्यते यतो यस्य मस्तके हस्तः क्रियते स प्रसिद्धिमान् भवतीति । अथैतत् श्रुत्वा त्र्यशीत्यपि शिष्यरुक्त-स्वामिन् ! वयं भवतां शिष्याः स्मः यूयमस्माकं विद्यागुरवस्ततोऽस्मदुपरि कृपां कृत्वा हस्तः क्रियताम् । ततो गुरुभिरुक्त वासचूर्णमानीयतां । तदा तैः शिष्यैः काष्ठछगणादिचूर्णं कृत्वा गुरुभ्य प्रानीय दत्तम् । गुरुभिरपि तच्चूर्ण मन्त्रयित्वा व्यशीतेः शिष्याणां मस्तके विक्षिप्तम् । ततःप्रभाते श्री गुरुभिः स्वस्याल्पायुर्ज्ञात्वा तत्रैवानशनं कृत्वा स्वर्गतिः प्राप्ता। अथ ते त्र्यशीतिरपि शिष्या आचार्य-पदं प्राप्य पृथक् पृथक् विहारं चक्रुः । अथैक: स्वशिस्यो वर्द्धमानसूरिः यशीतिष्य इमे अन्यदीयाः शिष्या एवं चतुरशीति गच्छाः संजाता इति वृद्धवादः ।"
३८. उद्योतनसूरिपट्टे श्री वर्द्धमानसूरिः स च षण्मासान् यावत् आचाम्लतपः कृत्वा धरणेन्द्र समाराध्य श्री सीमंधरस्वामिपावें संप्रेष्य सूरिमंत्रं शुद्धं कारितवान् । तथा पुनरेकदा विहारं कुर्वन् सरसाख्ये समाययौ।" (अश्रुतपूर्व आश्चर्य)
"पण्हावागरण सूत्र" में श्रमणों के साथ "सुविहित" विशेषण का प्रयोग अनेक स्थानों पर किया गया है यथा-"जपि य समणस्स सुविहियस्स उ रोगायंके बहु पगारम्मिसमुपण्णे. . "........"पि य समणस्स सुविहियस्स तु पडिग्गहधारिस्स भवति भायणभंडोवही उपकरणं पडिग्गहो पात्तबंधणं........." .....पण्हावागरणं, संवरद्वार पंचम........
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org