SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ૧૧ श्राद्धः श्रोता सुधीर्वक्ता, युज्येयातां यदीश ! तत् । त्वच्छासनस्य साम्राज्य मेकच्छत्रं कलावपि ॥३॥ युगान्तरेऽपि चेन्नाथ ! भवन्त्युच्छृङ्खला खलाः । वृथैव ति कुप्यामः, कलये वामकेलये ॥४॥ कल्याणसिद्धयै साधीयान्, कलिरेव कषोपलः । विनाग्निं गन्धमहिमा, काकतुण्डस्य नैधते ॥५॥ निशि दीपोऽम्बुधौ द्वीपो, मरौ शाखी हिमे शिखी । कलौ दुरापः प्राप्तोऽयं, त्वत्पादाब्जरजः कणः ॥६॥ युगान्तरेषु भ्रान्तोऽस्मि त्वद्दर्शनविनाकृतः । यत्र, त्वद्दर्शनमजायत ॥७॥ नमोऽस्तु कलये बहुदोषो दोषहीनास्त्वत्तः कलिरशोभत । विषयुक्तो विषहरात्फणीन्द्र इव रत्नतः ॥ ॥ इति नवमप्रकाशः ॥ 卐 मत्प्रसत्तेस्त्वत्प्रसादस्त्वत्प्रसादादियं पुनः । इत्यन्योन्याश्रयं भिन्धि, प्रसीद भगवन् ! मयि ॥१॥ निरीक्षितुं रूपलक्ष्मीं, सहस्राक्षोऽपि न क्षमः । स्वामिन्! सहस्रजिह्वोऽपि शक्तो वक्तुं न ते गुणान् ॥२॥ Jain Education International 3 * संशयान् नाथ ! हरसेऽनुत्तरस्वर्गिणामपि । अतः परोऽपि किं कोऽपि, गुणः स्तुत्योऽस्ति वस्तुतः ? ||३|| इदं विरुद्धं श्रद्धत्तां, कथमश्रद्दधानकः ? आनन्दसुखसक्तिश्व, विरक्तिश्च समं त्वयि ॥४ | नाथेयं घटमानापि, दुर्घटा घटतां कथम् ? उपेक्षा सर्वसत्त्वेषु, परमा चोपकारिता ॥५॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002070
Book TitleVitragstav
Original Sutra AuthorHemchandracharya
AuthorBhagvandas Mehta
PublisherShrimad Rajchandra Ashram
Publication Year1965
Total Pages446
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Devotion, & Worship
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy