________________
मिथ्यादृशां युगान्तार्कः, सुदृशाममृताञ्जनम् । तिलक तीर्थकल्लक्षम्याः , पुरश्चक्रं तवैधते ॥१॥ एकोऽयमेव जगति, स्वामीत्याख्यातुमुच्छ्रिता । उच्चैरिन्द्रध्वजव्याजात्तर्जनी भविद्विषा ॥२॥ यत्र पादौ पदं धत्तस्तव तत्र सुरासुराः। किरन्ति पङ्कजव्याजाच्छ्रियं पङ्कजवालिनीम् ॥३॥ दानशीलतपोभावमेदाद्धर्म चतुर्विधम् ।। मन्ये युगपदाख्यातुं, चतुर्वक्त्रऽभवद्भवान् ॥४॥ त्वयि दोषत्रयात्त्रातुं, प्रवृत्ते भुवनत्रयीम् । प्राकारत्रितयं चक्रुस्त्रयोऽपि त्रिदिवौकसः ॥५॥ अधोमुखाः कण्टकाः स्युर्धात्र्यां विहरतस्तव । भवेयुः सम्मुखीनाः किं, तामसास्तिग्मरोचिषः ? ॥६॥ केशरोमनखश्मश्रृं, तवावस्थितमित्ययम् ।। बाह्योऽपि योगमहिमा, नाप्तस्तीर्थकरैः परैः ॥७॥ शब्दरूपरसस्पर्शगन्धाख्या पञ्च गोचराः । भजन्ति प्रातिकूल्यं न, त्वदने तार्किका इव ॥८॥ त्वत्पादावृतवः सर्वे, युगपत्पर्युपासते । आकालकृतकन्दर्पसाहायकभयादिव
॥९॥ सुगन्ध्युदकवर्षेण दिव्यपुष्पोत्करेण च । भावित्वत्पादसंस्पर्शी, पूजयन्ति भुवं सुराः ॥१०॥ जगत्प्रतीक्ष्य ! त्वां यान्ति, पक्षिणोऽपि प्रदक्षिणम् । का गतिर्महतां तेषां, त्वयि ये बामवृत्तयः ॥११॥ पञ्चेन्द्रियाणां दौःशील्यं, क्व भवेद्धबदन्तिके ? । एकेन्द्रियोऽपि यन्मुञ्चत्यनिलः प्रतिकूलताम् ॥१२॥ मूनां नमन्ति तरवस्त्वन्माहात्म्यचमत्कृताः । तत्कृतार्थ शिरस्तेषां, व्यर्थ मिथ्यादृशां पुनः ॥१३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org