________________
વિશ્વવંદ્ય વીતરાગ દેવ
भवबीजाङ्कुरजनना रागादयः क्षयमुपागता यस्य । ब्रह्मा वा विष्णुर्वा हरो जिनो वा नमस्तस्मै ॥ इमां समक्षं प्रतिपक्षसाक्षिणामुदारघोषा मुद्घोषणां ब्रुवे । न वीतरागात्परमस्ति दैवर्त, न चाप्यनेकान्तमृते नयस्थितिः ॥ શ્રી હેમચ`દ્રાચાર્ય જી
यस्य संक्लेशजननो रागो नास्त्येव सर्वदा । न च द्वेषोऽपि सत्त्वेषु शमेन्धनदवानलः ॥ न च मोहोऽपि सज्ज्ञानच्छादनोऽशुद्धवृत्तकृत् । त्रिलोकख्यातमहिमा महादेव: स उच्यते ॥
থক
—શ્રીહરિભદ્રાચાય જી
बुद्धस्त्वमेव विबुधाचित बुद्धिबोधात् त्वं शङ्करोऽसि भुवनत्रयशंकरत्वात् । धाताऽसि धीर शिवमार्गविधेविधानात्,
7
व्यक्तं त्वमेव भगवन् ! पुरुषोत्तमोऽसि ॥ - श्री लम्ताभरस्तोत्र प्रशमरसनिमग्नं दृष्टियुग्मं प्रसन्नं वदनकमलमङ्कः कामिनीसङ्गशून्यः । करयुगमपि यत्त शस्त्रसंबंधबंध्यं तदसि जगति देवो वीतरागस्त्वमेव ।। શ્રી મહાકવિ ધનપાલ
जयंति यस्याऽवदतोऽपि भारती, विभूतयस्तीर्थकृतोऽप्यनीहितुः । शिवाय धात्रे सुगताय विष्णवे, जिनाय तस्मै सकलात्मने नमः ॥ —શ્રી પૂજ્યપાદસ્વામીજી
ज्ञानलक्ष्मीधनाश्लेषप्रभवानंदनंदितम् । निष्ठितार्थमजं नौमि परमात्मानमव्ययं । - श्रीशुलय द्राचार्यल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org