________________
३२
श्रीज्ञानमञ्जरी
ऋजुसूत्रेण वर्त्तमानबोध: यथार्थायथार्थरूपमुभयज्ञानम्, शब्दनयेन सम्यग्दर्शनपूर्वकयथार्थावबोधलक्षणं कारणकार्यसापेक्षं ज्ञानं स्वपरप्रकाशं स्याद्वादोपेतमर्पितानर्पितादियुक्तं सम्यग्ज्ञानं ज्ञानम्, समभिरूढनयेन सकलज्ञानवचनपर्यायशक्तिप्रवृत्तिरूपम्, एवंभूतनयेन मत्यादीनां स्वस्वरूपपूर्णे एवंभूतता वस्तुतः केवलं ज्ञानम् एवंभूतज्ञानम्, अत्र मिथ्यादर्शनेऽपि विपर्यासोपेतं ज्ञानं कुज्ञानम्, तन्न मोहत्यागहेतुः, अतः सम्यग्दर्शनपूर्वकस्वस्वरूपोपादेयपरभावहेयोपयोगलक्षणं सम्यग्ज्ञानं गृहीतम्, तस्यैव संसारौदासीन्यहेतुत्वात् उक्तं च
तज्ज्ञानमेव न भवति, यस्मिन्नुदिते विभाति रागगणः । तमसः कुतोऽस्ति शक्तिर्दिनकरकिरणाग्रतः स्थातुम् ? ॥ १ ॥ अतः ज्ञानं तत्त्वावबोधरूपम्, आत्मनः स्वस्वभावाविष्करणहेतु:, मोक्षमार्गस्य मूलम् 'ज्ञानक्रियाभ्यां मोक्षः [15] पढमं नाणं तओ दया, एवं चिट्ठइ सव्वसंजए । [ दशवै०अ०४, गा०१०] एवं स्वरूपम् । अत्रानुप्रेक्षायुक्तस्पर्शज्ञानस्यावसरस्तद् व्याख्यायते—
मज्जत्यज्ञः किलाज्ञाने, विष्ठायामिव शूकरः । ज्ञानी निमज्जति ज्ञाने, मराल इव मानसे ॥१॥
मज्जत्यज्ञ इति-अज्ञः-स्वभावविभावाविवेचकः, किल इति सत्ये, अज्ञाने - अयथार्थोपयोगे, मज्जति-मग्नो भवति, यथार्थावबोधविकलः अयथार्थे लीनो भवति, कमिव ( क इव ? ) विष्ठायां शूकरः इव, यथा शूकरः विष्ठायां मज्जति तथाऽज्ञोऽभोग्ये आत्मगुणावरणकारणे परवस्तुनि सातादिविपाके इन्द्रियविषये मज्जति । ज्ञानी - यथार्थावबोधी, ज्ञाने - तत्त्वावबोधे आत्मस्वरूपे निमज्जति - तन्मयो भवति । आत्मस्वरूपावबोधानुभवलीनाः शब्दादिविषयान् मनोज्ञानिन्द्रादिविस्मयहेतूंस्तृणयन्ति, रमन्ते स्वरूपे, भीष्मग्रीष्मतापतप्तशिलातलस्थाः अपि शीतलाः, अत्यन्तहिमे अकम्पा ध्यायन्ति स्वतत्त्वम्, जगद्विक्षोभ
१. प्रकाशकम् - A.D. L.D.1.3. 1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org