________________
स्थिरताष्टकम् (३)
अन्तर्गतं महाशल्यमस्थैर्यं यदि नोद्धृतम् । क्रियौषधस्य को दोषस्तदा गुणमयच्छतः ॥४॥
अन्तर्गतमिति- अन्तर्गतमभ्यन्तरम्, महाशल्यं-महत् शल्यरूपंपरभावानुयायि परभावानुगतचेतनावीर्यपरिणतिरूपम्, अस्थैर्यम्-अस्थिरत्वम्, अतश्चापल्यम् आत्मपरिणतीनां स्वस्वकार्याकरणे परभावोन्मुखप्रवर्तनरूपम् अस्थैर्यम्, यदि न उद्धृतं-न वारितम्, तदा क्रियौषधस्य कः दोषः ? न कोऽपीत्यर्थः, कथंभूतस्य क्रियौषधस्य ? गुणं स्वात्मस्वभावाविर्भावरूपमयच्छतः-अददतः, क्रिया हि वृत्तिरूपा, भावपरिणतिस्तु आत्मगुणशुद्धिरूपा, अन्तः शल्ये सति क्रियौषधेन नो रोगापगमः, अतः आभ्यन्तरं परानुयायितापरकर्तृतापरव्यापकतारूपं शल्यं निवारणीयमिति ॥४॥
स्थिरता वाङ्मनःकायैर्येषामङ्गाङ्गितां गता । योगिनः समशीलास्ते, ग्रामेऽरण्ये दिवा निशि ॥५॥
स्थिरता इति- येषां-प्राणिनाम्, वाङ्मनःकायैर्वचनमनः-काययोगैः, स्थिरता-आत्मगुणनिर्धारभासनरमणैकत्वरूपा, अङ्गाङ्गिताम् - तन्मयतां गता-प्राप्ता, ते योगिनः-मुनीश्वराः, समशीला:-समस्वभावाः, स्वद्रव्य-स्वक्षेत्र-स्वकाल-स्वभावरूपस्वोत्मस्वभावतः अन्यत्-परद्रव्ये परत्वरूपम् समत्वेन ज्ञानात् स्वात्मनः सकाशात् यदन्यत् तत्सर्वं भिन्नमिति समत्वं येषां निष्पन्नं तेषां ग्रामे-जनसमूहलक्षणे, अरण्येनिर्जने, तुल्यत्वम्-इष्टानिष्टताभावः, दिवा-वासरे, निशि-रात्रौ समत्वंतुल्यपरिणतिः अरक्तद्विष्टतारूपा समपरिणतिर्भवति ॥५॥
स्थैर्यरत्नप्रदीपश्चेद्, दीप्रः संकल्पदीपजैः । तद्विकल्पैरलं धूमैरलंधूमैस्तथाऽऽश्रवैः ॥६॥
स्थैर्येति- यस्य पुरुषस्य चेत्–यदि स्थैर्यरत्नप्रदीप:- स्थिरतारूपरत्नदीपकः, 'दीप्र:'-देदीप्यमानः, तत्-तदा सङ्कल्पदीपजैः विकल्पैः १. माभ्य० L.D.1. 1 २. स्वात्मभावतः L.D.1. I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org