________________
श्रीज्ञानमञ्जरी प्रवृत्तिर्विषादमूलैव, रे वत्स ! स्वसन्निधावेव-स्वसमीपे एव आत्मनि एव, निधि-स्वगुणसम्पद्भाजनम्, तव स्थिरता भेदरत्नत्रयाभेदरत्नत्रयैकत्वरूपा दर्शयिष्यति-उपयोगगोचरा करिष्यति, अतोऽनादिविषयास्वादचलतां त्यक्त्वा शुद्धे ज्ञानाद्यनन्तगुणे शुद्धात्मनि स्थिरत्वं कुरु ॥१॥
ज्ञानदुग्धं विनश्येत, लोभविक्षोभकूर्चकैः । आम्लद्रव्यादिवास्थैर्यादिति मत्वा स्थिरो भव ॥२॥
ज्ञानदुग्धमिति- लोभविक्षोभकूर्चकैः अस्थैर्यात् ज्ञानदुग्धं विनश्येत । लोभः-लोलतापरिणामः, इच्छा मूर्छा गृध्नता काङ्क्षा इत्यादि लोभपर्यायाः, (तद्भावजन्या विक्षोभा:)-परभावाभिलाषरूपाः अशुद्धपरिणामाः, त एव कूर्चकाः, तैर्ज्ञानं तत्त्वावबोधतत्त्वैकत्वरूपम्, दुग्धमिव दुग्धम्, विनश्येत-क्षयं लभेत, लोभपरिणामः आत्मस्वरूपानुभवविनाशहेतुः, कस्मादिव ? आम्लद्रव्यादिव, यथा आम्लद्रव्ययोगे पयो विनश्यति तथा लोभपरिणत्या आत्मस्वरूपसुखं विनश्यतीति । लोभपरिणामः-परभावग्रहणेच्छापरिणामः, आत्मगुणानुभवविध्वंसहेतुः, इति ज्ञात्वा आत्मस्वरूपे-अखण्डानन्दरूपे चित्स्वरूपे अवर्णागन्धारसास्पर्शे आत्मनि श्रद्धानज्ञानरमणतया स्थिरो भव ॥२॥
अस्थिरे हृदये चित्रा, वाड्नेवाऽऽकारगोपना । पुंश्चल्या इव कल्याण-कारिणी न 'प्रकीर्तिता ॥३॥
अस्थिरे इति- हृदये अस्थिरे सति-परभावाभिलाषिणि चित्ते सति, चित्रा-अनेकप्रकारा वाङ्नेत्राद्याकारगोपना द्रव्यक्रियारूपा पुंश्चल्या इवअसती स्त्री इव कल्याणकारिणी न प्रकीर्तिता-हितकारिणी न मता, जैनानां द्रव्यक्रिया भावधर्मयुता भावाभिलाषिणी एव प्रशस्या, भावधर्मरहिता तु मार्जारसंयमतुल्या, तत्त्वार्थे द्रव्यक्रिया केषाञ्चित् परम्परया धर्महेतुतया जाता, सा तु देवादिसुखेहलोकयशोभिलाषरहितानामेव, न तु लोकसंज्ञारूढानाम्, अतस्तत्त्वस्वरूपाभिमुखीभूय मन आत्मधर्मैकत्वं विधाय चित्तस्थिरतापूर्वकं स्थैर्यं करणीयमिति ॥३॥ १. तन्न कीर्तिता । L.D.1. । २. कीर्त्तिता L.D.1. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org