________________
मग्नाष्टकम् (२) ज्ञाता लोकालोकस्य अत एव नायं परभावानां कर्ता, किन्तु स्वभावमूढाऽशुद्धपरिणतिपरिणतः अशुद्धनिश्चयेन रागादिविभावस्य, अशुद्धव्यवहारेण ज्ञानावरणादिकर्मणां कर्ता जातोऽपि स एव सहजसुखरुचिरनन्ताविनाशिस्वरूपसुखमयमात्मानं ज्ञात्वा आत्मीयपरमानन्दभोगी, न परभावानां कर्ता भवति । किन्तु ज्ञायक एव । अत्र प्रस्तावना-अयं हि आत्मा स्वनिःसपत्न-सङ्गाङ्गितया स्वीयविशेषस्वभावानां स्वगुणकरणेन सत्प्रवृत्तिमतामपि स्वगुणकरणावरणेन ज्ञानचेतनावीर्यादिक्षयोपशमानां च परानुयायिनां तत्सहकारेण कर्तृत्वादिपरिणामानां परकर्तृत्वादिविभावपरिणमनेन परकर्तृत्वे जातेऽपि तेषामेव गुणानां स्वभावसम्मुखीभवनेन कर्तृत्वादीनां परावृत्तिः, तेन सम्यग्दर्शनज्ञानचारित्रपरिणतेः स्वरूपसाधनकर्तृत्वादि कुर्वन्, गुणकरणैः साधनकर्तृत्वं विधाय गुणप्रवृत्तिरूपं शुद्धं कर्तृत्वादिकं करोति, अत एव साधकानां सन्मुनीनां स्वरूपसम्मुखानां न परभावकर्तृत्वमिति, किन्तु ज्ञायकत्वमेव । अत्र पक्षः-तर्हि मुनीनां परभावाकर्तृत्वे उक्तहेतुद्वयजन्यकर्मकर्तृता कुतः ? तत्राह- स्वस्वभावमग्नानां साधकमुनीनामनभिसन्धिजवीर्यतदनुगतचेतनया कर्मबन्धकर्तृत्वमस्ति, तथापि स्वायत्ताभिसन्धिजगुणप्रवृत्तीनां स्वभावानुगतत्वात् अकर्तृत्वम्, अथवा-एवंभूतसिद्धत्वास्वादानन्दमग्नानां तु न परभावकर्तृता । अथवा-सम्यग्दर्शनादिगुणप्राप्तौ वस्तुस्वरू. बवरणेन स्वरूपानुगतस्वशक्तित्वेन आत्मनः परभावकर्तृत्वं नास्त्येव, ज्ञायकत्वमेवेति ।। अतः स्वरूपरसिकानां सर्वभावज्ञायकत्वम्, कर्तृत्वं तु स्वपारिणामिकभावस्य । अतः स्वात्मानमेकान्ते निवेश्य अनादिभ्रान्तिजं परभावकर्तृत्व-भोक्तृत्व-ग्राहकत्वादिकं निवारणीयम्, स्वरूपाखण्डानन्दकर्तृत्वादिकं करणीयमिति गाथार्थः ॥३॥
परब्रह्मणि मग्नस्य, श्लथा पौद्गलिकी कथा । क्वामी चामीकरोन्मादाः, स्फारा दारादराः क्व च ॥४॥ परब्रह्मणीति-परब्रह्मणि-परमात्मनि मग्नस्य-तन्मयस्य स्वरूपाव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org