________________
श्रीज्ञानमञ्जरी य आत्मानुभवमग्नः स कीदृग् भवति तदाह
यस्य ज्ञानसुधासिन्धौ, परब्रह्मणि मग्नता ।
विषयान्तरसंचारस्तस्य हालाहलोपमः ॥२॥ यस्येति- यस्य-जीवस्य अनादिविभावविरतस्य ज्ञानसुधासिन्धौ ज्ञानामृतसमुद्ररूपे परब्रह्मणि-परमात्मसमाधौ मग्नस्य (मग्नता) तस्यजीवस्य विषयान्तरे-वर्णगन्धादौ, सञ्चार:-प्रवर्तनम्, हालाहलोपमःमहाविषभक्षणतुल्यः । यो हि अमृतास्वादमग्नः स विषमत्तुं कथं प्रवर्त्तते ? मालतीभोगमग्नो मधुकरः करीरादिषु न वसति एवं शुद्धनिःसङ्ग-निरामय-निर्द्वन्द्व-स्वीयात्मज्योतिर्मग्नः अनन्तजीवोच्छिष्टेषु स्वयमनन्तवारभुक्तमुक्तेषु, वस्तुतः अभोग्येषु स्वगुणावरणहेतुभूतेषु, विषयेषु तस्य मनो न सञ्चरति, न प्रवर्तते इति तत्त्वम् ॥२॥ पुनस्तदेव द्योतयति
स्वभावसुखमग्नस्य, जगत्तत्त्वावलोकिनः ।
कर्तृत्वं नान्यभावानाम्, साक्षित्वमवशिष्यते ॥३॥ स्वभावसुख० इति- स्वभावः-सहजं सुखं सहजात्यन्तिकं शश्वदप्रतिपातादात्यन्तिकम्, व्यतिकीर्णसुखदुःखहेतुभावाद्यन्तरानपेक्षाद् ऐकान्तिकम्, तत्र मग्नस्य-तन्मयस्य, जगत्-लोकः तस्य तत्त्वं तद्धर्मम्, यथार्थतया विलोकिनः-दर्शनशीलस्य पुरुषस्य, अन्यभावानां-परभावानां रागादिविभावानां ज्ञानावरणादिकर्मणां बाह्यस्कन्धादाननिक्षेपाणां कर्तृत्वं न, किन्तु ज्ञायकस्वभावत्वात् साक्षित्वमेव, तत्र कर्तृत्वम्-एकाधिपत्ये क्रियाकारित्वम्, तत् जीवे जीवगुणानामेव, चेतनावीर्योपकरणकारकचक्रोपकरणेन (चक्रोदाहरणेन) । यतो हि एकाधिपत्यक्रियाशून्यत्वेन धर्मादिद्रव्येषु न कर्तृत्वम्, जीवस्यापि कर्तृत्वं स्वकार्यस्य । न हि जीवः कोऽपि जगत्कर्ता, किन्तु स्वकार्य-परिणामिकगुणपर्यायप्रवृत्तेरेव कर्ता, न परभावानाम्, परभावानां तु कर्तृत्वे असदारोपसिद्ध्यभावादयो दोषाः,
१. तस्य B.1.2., S.M. I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org