________________
श्रीज्ञानमञ्जरी संग्रहेण सर्वे जीवा, नैगमेनासन्नसिद्धिमन्तो भव्याः पूर्णानन्दाभिलाषिणः, १ व्यवहारेण अभ्यासवन्तः, ऋजुसूत्रेण तद्विकल्पवन्तः, शब्दनयेन सम्यग्दर्शनादिसाधकगुणानन्दपूर्णाः समभिरूढेन अर्हदाचार्योपाध्यायसाधवः स्वस्वभावसुखास्वादनेन भवोद्विग्नत्वात् एवंभूततः सिद्धः अनन्तगुणानन्दाव्याबाधानन्दपूर्णत्वात् । अत्र हि भावनिक्षेपः साध्यः, ततः एवंभूतः पूर्णानन्दः साधनत्वेन गृहीतः इति । शुद्धसिद्धामलानन्ताकृत्रिमस्वरूपसकलस्वभावाविर्भावानुभवरूपः पूर्णानन्दः साध्यः । साधना तु या सम्यग्रत्नत्रयाभ्यासवत्त्वेनात्मगुणास्वादानन्दतया परिणमय्य पूर्णानन्दसाधना विधेया ॥ ८ ॥
इति व्याख्यातं पूर्णाष्टकम् ॥१॥
अथ द्वितीयं मग्नाष्टकम् ।
—
अथ मग्नाष्टकं वितन्यते तत्र नामस्थापने सुगमे, द्रव्येणधनमदिरापानादिना मग्नः, द्रव्यात्- धनकाञ्चनात् मग्नः, द्रव्ये - शरीरादौ मग्नः । अथवा द्रव्यरूपो मग्नो द्विधा, आगमतो मग्नपदार्थज्ञाता अनुपयुक्तः, नोआगमतो ज्ञशरीरभव्यशरीरे पूर्ववत्, तद्व्यतिरिक्तस्तु मूढः शून्यः जडः । भावमग्नो द्विविधः, अशुद्धः शुद्धश्चेति । तत्र अशुद्धः क्रोधादिमग्नः विभावभावितात्मा, शुद्धो द्विविधः, साधकः सिद्धश्च तत्र साधको वस्तुस्वरूपाभिमुखः, आद्यन्यचतुष्टये तु निरनुष्ठानदग्धादिदोषवर्जितविध्युपेतद्रव्यसाधनप्रवृत्तिपरिणतः वस्तुस्वरूपसाधनरुचिमतो ( रुचिमान् ) भवति । शब्दादिनयमग्नस्तु सम्यग्दर्शनज्ञानचारित्राद्यात्मसमाधिमग्नः, सिद्धमग्नः सम्पूर्णवस्तुस्वरूपे निरावरणे मग्नः निष्पन्नः । अत्र हि गुणस्थानादिविशुद्धस्वस्वरूपानन्दमग्नत्वमीक्ष्यते तत्र मग्नत्वलक्षणं वदन्नाह
१. व्यवहारतः S.M., B.1.2, V.12. I २. समभिरूढतः B.1., V.2., S.M.I ३. एवंभूतेन S.M. I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org