________________
१७०
भगवता साक्षान्मातृकापदरूपतयाभिधानात् । तथा चार्षम्-उपन्नेइ वा विगमेइ वा धुवेइ वा' इत्यदोषः । ___मत्सरित्वाभावमेव विशेषणद्वारेण समर्थयति । नयानशेषानविशेषमिच्छन् इति । अशेषान्-समस्तान् नयान्-नैगमादीन् अविशेष-निर्विशेषं यथा भवति, एवम् इच्छन्-आकाङ्क्षन् सर्वनयात्मकत्वादनेकान्तवादस्य । यथा. विशकलितानां मुक्तामणीनामेकसूत्रानुस्यूतानां हारव्यपदेशः । एवं पृथगभिसन्धीनां नयानां स्याद्वादलक्षणैकसूत्रप्रोतानां श्रुताख्यप्रमाणव्यपदेश इति । ननु प्रत्येकं नयानां विरुद्धत्वे कथं समुदितानां निर्विरोधिता ? उच्यते- यथा हि समीचीनं मध्यस्थं न्यायनिर्णेतारमासाद्य परस्परं विवदमाना अपि वादिनो विवादात् विरमन्ति, एवं नया अन्योऽन्यं वैरायमाणा अपि सर्वज्ञशासनमुपेत्य स्याच्छब्दप्रयोगोपशमित विप्रतिपत्तयः सन्तः परस्परमत्यन्तं सुहृद्भूयावतिष्ठन्ते । एवं च सर्वनयात्मकत्वे भगवत्समयस्य सर्वदर्शनमयत्वमविरुद्धमेव, नयरूपत्वाद् दर्शनानाम् ।
__न च वाच्यं तर्हि भगवत्समयस्तेषु कथं नोपलभ्यते इति । समुद्रस्य सर्वसरिन्मयत्वेऽपि विभक्तासु तासु अनुपलम्भात् । तथा च वक्तृवचनयोरैक्यमध्यवस्य श्रीसिद्धसेनदिवाकरपादाः- .
उदधाविव सर्वसिन्धवः, समुदीर्णास्त्वयि नाथ ! दृष्टयः । न च तासु भवान् प्रदृश्यते, प्रविभक्तासु सरित्स्विवोदधिः ॥
अन्ये त्वेवं व्याचक्षते । यथा अन्योऽन्यपक्षप्रतिपक्षभावात् परे प्रवादा मत्सरिणस्तथा । तव समय: सर्वनयान् मध्यस्थतयाङ्गीकुर्वाणो न मत्सरी । यतः कथंभूतः ? पक्षपाती-पक्षमेकपक्षाभिनिवेशम् पातयति तिरस्करोतीति पक्षपाती, रागस्य जीवनाशं नष्टत्वात् । अत्र च व्याख्याने मत्सरीति विधेयपदम् पूर्वस्मिंश्च पक्षपातीति विशेषः । अत्र च क्लिष्टाक्लिष्टव्याख्यानविवेको विवेकिभिः स्वयं कार्यः । इति काव्यार्थः ॥३०॥ (स्याद्वा०म० गा० ३०) 32/2
[131] सर्वनयमये भगवत्प्रवचने सर्वाणि दर्शनानि सन्निविष्टानि, एवमपि ततः भक्तेष्वेकान्तताकलुषितेषु न भवतो दर्शनम्, समुद्रान्तः सन्निविष्टानां नदीनां ततः प्रविभक्तावस्थायां तासु समुद्रादर्शनमिवेत्याह
उदधाविव सर्वसिन्धवः, समुदीर्णास्त्वयि सर्वदृष्टयः । । न च तासु भवानुदीक्ष्यते, प्रविभक्तासु सरित्स्विवोदधिः ॥१५॥ उदधाविवेति- उदधौ सर्वसिन्धव इव त्वयि सर्वदृष्टयः समुदीर्णाः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org