________________
तस्माद्भावसाधुः सर्वैरपि नयैरिष्यत एव स च ज्ञान-क्रियायुक्त एवेत्यतो व्यवस्थितमिदं तत् सर्वनयविशुद्धं यच्चरणगुणव्यवस्थितः साधुरिति । (अनु०द्वा०सू०६०६, गा० १४१) 32/1
[130] अधुना परदर्शनानां परस्परविरुद्धार्थसमर्थकतया मत्सरित्वं प्रकाशयन् सर्वज्ञोपज्ञसिद्धान्तस्यान्योऽन्यानुगतसर्वनयमयतया मात्सर्याभावमाविर्भावयति
अन्योऽन्यपक्षप्रतिपक्षभावाद्, यथा परे मत्सरिणः प्रवादाः । नयानशेषानविशेषमिच्छन्, न पक्षपाती समयस्तथा ते ॥३०॥
प्रकर्षेण उद्यते-प्रतिपाद्यते स्वाभ्युपगतोऽर्थो यैरिति प्रवादाः । यथा-येन प्रकारेण । परे-भवच्छासनाद् अन्ये । प्रवादा:-दर्शनानि । मत्सरिण:-अतिशायने मत्वर्थीय-इनविधानात् सातिशयासहनताशालिनः क्रोधकषायकलुषितान्तःकरणाः सन्तः पक्षपातिनः, इतरपक्षतिरस्कारेण स्वकक्षीकृतपक्षव्यवस्थापनप्रवणा वर्तन्ते । कस्मात् हेतोर्मत्सरिण इत्याह-अन्योऽन्यपक्षप्रतिपक्षभावात् । पच्यते-व्यक्तीक्रियते साध्यधर्मवैशिष्ट्येन हेत्वादिभिरिति पक्षः-कक्षीकृतधर्मप्रतिष्ठापनाय साधनोपन्यासः । तस्य प्रतिकूलः पक्षः प्रतिपक्षः । पक्षस्य प्रतिपक्षो-विरोधी पक्षः प्रतिपक्षः । तस्य भावः पक्षप्रतिपक्षभावः । अन्योऽन्यं-परस्परं यः पक्षप्रतिपक्षभाव:-पक्षप्रतिपक्षत्वमन्योऽन्यपक्षप्रतिपक्षभावस्तस्मात् ।
तथाहि-य एव मीमांसकानां नित्यः शब्द इति पक्षः, स एव सौगतानां प्रतिपक्षः । तन्मते शब्दस्यानित्यत्वात् । य एव सौगतानामनित्यः शब्द इति पक्षः, स एव मीमांसकानां प्रतिपक्षः । एवं सर्वप्रयोगेषु योज्यम् । तथा तेन प्रकारेण, तेतव । सम्यग् एति-गच्छति शब्दोऽर्थमनेन इति पुन्नाम्निघः [सि० है० ५।३।१३०] समय:-संकेतः । यद्वा सम्यग अवैपरीत्येन इयन्ते-ज्ञायन्ते जीवाजीवादयोऽर्था अनेन इति समय:-सिद्धान्तः, अथवा सम्यग् अयन्ते-गच्छन्ति जीवादयः पदार्थाः स्वस्मिन् स्वरूपे प्रतिष्ठां प्राप्नुवन्ति अस्मिन् इति समयः-आगमः । न पक्षपातीनैकपक्षानुरागी । पक्षपातित्वस्य हि कारणं मत्सरित्वं परप्रवादेषु उक्तम् । त्वत्समयस्य च मत्सरित्वाभावाद् न पक्षपातित्वम् । पक्षपातित्वं हि मत्सरित्वेन व्याप्तम्, व्यापकं च निवर्तमानं व्याप्यमपि निवर्तयति इति मत्सरित्वे निवर्तमाने पक्षपातित्वमपि निवर्तत इति भावः । तव समय इति वाच्यवाचकभावलक्षणे सम्बन्धे षष्ठी । सूत्रापेक्षया गणधरकर्तृकत्वेऽपि समयस्य अर्थापेक्षया भगवत्कर्तृकत्वात् वाच्य-वाचकभावो न विरुध्यते । अत्थं भासइ अरहा सुत्तं गंथंति गणहरा णिउणं इति वचनात् । अथवा उत्पाद-व्यय-ध्रौव्यप्रपञ्चः-समयः । तेषां च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org