________________
१५८
अयं च विकल्पस्तत्त्वान्यत्वसत्त्वासम्भवात् किलावक्तव्यमेवेत्येवंविधैकान्तव्यावर्तनार्थः स्यादवक्तव्य एवात्मा, अवक्तव्यशब्देनान्यैश्च षडभिर्वचनैर्द्रव्यपर्यायविशेषैश्च वक्तव्य एव, अन्यथा सर्वप्रकारवक्तव्यतायामवक्तव्यादिशब्दैरप्यवाच्यत्वादनुपाख्यः स्यात्, अतीतविकल्पद्वयं त्वेकान्तास्तित्वैकान्तनास्तित्वप्रतिपक्षनिराकरणद्वारेण स्यादस्ति स्यान्नास्तीति स्वपरपर्यायान्तरैकधर्मसम्बन्धार्पणात् कालभेदेनोक्तम् अधुना युगपद् विरुद्धधर्मद्वयसम्बन्धार्पितस्य च वस्तुरूपस्याभिधानात् कीदृशः शब्दप्रयोगो भवतीति ? उच्यते- न खलु तादृशः शब्दोऽस्ति यस्तादृशीं विवक्षां प्रतिपूरयेत्, यतोऽर्थान्तरवृत्तैः पर्यायैरवर्तमानमननुभवंस्तान् पर्यायान् द्रव्यं ब्रवीतीत्येका विवक्षा, अपरा तु विवक्षा, निजैः पर्यायैः स्वात्मनि वृत्तैर्वर्तमानमनुभवन् स्वान् पर्यायान् द्रव्यमभिदधातीति, एवमेतयोर्विवक्षयोः परस्परविलक्षणत्वाद् विरुद्धत्वाच्च द्वाभ्यामपि युगपदादेशे पुरुषस्यैकस्यैकत्र द्रव्ये नास्ति सम्भवो वंचनविशेषातीतत्वाच्चावक्तव्यं वाचकशब्दाभावात् । एतदुक्तं भवति- अस्तित्वनास्तित्वयोर्विरुद्धयोरेकत्राधिकरणे काले च सम्भव एव नास्तीत्यतस्तद्विधस्यार्थस्याभावात् तस्य वाचकः शब्दोऽपि नास्त्येवेति १ ॥ तथा कालाद्यभेदेन वर्तनं गुणानां युगपद्भावस्तच्च यौगपद्यमेकान्तवादे नास्ति, यतः कालात्मरूपार्थसम्बन्धोपकारगुणिदेशसंसर्गशब्दद्वारेण गुणानां वस्तुनि वृत्तिः स्यात् तत्रैकान्तवादे विरुद्धानां गुणानामेकस्मिन् काले न क्वचिदेकत्रात्मनि वृत्तिर्दृष्टा, न जातुचित् प्रविभक्ते सदसत्त्वे स्त एकत्रात्मन्यसंसर्गरूपे येनात्मा तथोच्येत, ताभ्यां विविक्तश्च परस्परगुणानामात्मस्वभावो नान्योन्यात्मनि वर्तते, ततश्च नास्ति युगपदभेदेनाभिधानम् २ ॥ न चैकत्रार्थे विरुद्धाः सदसत्त्वादयो वर्तन्ते, यतोऽह्यभिन्नैकात्माधारत्वेनाभेदे सति सदसत्त्वे युगपदुच्येयाताम् ३ ॥ न च सम्बन्धाद् गुणानामभेदः, सम्बन्धस्य भिन्नत्वात्, छत्रदेवदत्तसम्बन्धाद्धि दण्डदेवदत्तसम्बन्धोऽन्यः, सम्बधिनोः कारणयोर्भिन्नत्वात्, न तावेकेन सम्बन्धेनाभिन्नावेव, सदसतोरात्मना सह सम्बन्धस्य भिन्नत्वात्, न सम्बन्धकृतं यौगपद्यमस्ति तदभावाच्च नैकशब्दवाच्यत्वम् ४ ॥ न चोपकारकृतो गुणानामभेदः, यस्मान्नीलरक्ताद्युपकर्तृगुणाधीन उपकारः, ते च स्वरूपेण भिन्नाः सन्तो नीलनीलतररक्तरक्ततरादिना द्रव्यं रञ्जयन्ति विवक्तोपकारभाजः । एवं सदसत्त्वयोर्भेदात् सत्त्वेनोपरोक्तं सत् असत्त्वोपरक्तमसदिति दूरापेतमुपकारसारूप्यम्, यतस्तदभेदेन शब्दो वाचकः स्यादिति ५ ॥ नाप्येकदेशे गुणिन आत्मन उपकारः समस्ति, येनैकदेशोपकारेण सहभावो भवेत्, गुणगुणिनोरुपकारकोपकार्यत्वे नीलादिगुणः सकल उपकारकः समस्तश्च घटादिरूपकार्यः, न चैकदेशे गुणो गुणी वा, यतो देशसहभावात् कश्चित् शब्दो वाचकः कल्प्येत ६ ॥ न चैकान्तवादिनां सदसत्त्वयोः संसृष्टमनेकान्तात्मकं रूपमस्ति, अवधृतैकान्तरूपत्वात्, यथैव हि शबलरूपव्यतिरिक्तौ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org