________________
१५७ स्यानास्तीति, स्वपरमात्रभावाभावोभयाधीनत्वादात्मास्तित्वस्य, यथैव स्वास्तित्वादस्तीत्युच्यते, तथैव परनास्तित्वान्नास्तीत्यपि वाच्यम्, न च प्रकारान्तरमस्ति किञ्चिदेकान्तवादिनां यदाश्रयणेनावष्टम्भो दृढप्रतिबन्धः स्यादिति नास्तित्वमस्तित्वानपेक्षमत्यन्तशून्यं वस्तु प्रतिपादयेदन्वयाप्रतिलम्भाद् अस्तित्वमपि नास्तित्वानपेक्षं सर्वरूपं वस्तु गमयेत् व्यतिरेकाप्रतिलम्भात्, न च सता सर्वाभावरूपेण सकलभावरूपेण वा भूयते, अतः सर्वदाऽस्तित्वं नास्तित्वसापेक्षं नास्तित्वं चास्तित्वापेक्षमेवात्मलाभमासादयति, एवं चात्मनि नाप्रसक्ता घटादिसत्ता निषिध्यते अर्थात् प्रकरणाद् वा, घटादिसत्तानिषेधश्चात्मनो धर्मस्तदधीनत्वादात्मस्वभावस्य, स एव च परेण विशेष्यमाणत्वात् परपर्याय उच्यते, गव्यनश्वत्ववत्, आत्मना विशेष्यमाणत्वादात्मपर्यायः, स्वपरविशेषणायत्तं हि वस्तुस्वरूपप्रकाशनम्, अनेकान्तवादे च स्यादस्त्यात्मेत्यादिभिः सप्तभिर्वाक्यैरभिधीयते वस्तु प्रत्येकक्रियापदप्रयोगेणार्थपरिसमाप्तेः, आत्मेति द्रव्यवाची विशेष्यत्वात्, अस्तीति गुणाभिधायी विशेषणत्वात्, शब्दशक्तिस्वाभाव्याच्च तथा प्रतीतेः, बुद्ध्यारूढस्योपचरितसत्ताकस्य मुख्यसत्त्वविशेषणत्वेनोपात्तस्य धर्मिण उपादानादसत्त्वे इव, स्याच्छब्दस्तु द्रव्यधर्मलिङ्गसङ्ख्याभेदवियुक्तत्वादसिप्रकृतिविध्यादिविषयस(म?)द्विभक्तिप्रथमपुरुषैकवचनान्तप्रतिरूपको निपातो विधिविचारणास्तित्वविवादाऽनेकान्तसंशयाद्यर्थवृत्तिः, तस्य चानेकान्तावद्योतनमेवार्थो विवक्षितः, केवलस्य च सामान्यविषयत्वावद्योतकत्वाद् विवक्षितार्थप्रतिपादनाय द्रव्यधर्मविशेषोपादानं, तन्नान्तरीयकत्वात्, निपातानां चापरिमितत्वादनेकान्तद्योतकतया विवक्षितत्वादिति, स्याच्छब्देनानेकान्ताभिधानादाक्षेपेऽपि सप्तभङ्ग्याः पुनर्भेदेनोपादानं विशिष्टार्थप्रतिपादनाय, यथा वृक्षशब्देन सामान्यविषयेणाक्षेपेऽपि धवादीनां विशेषप्रतिपिपादयिषया धवादिशब्दोपादानम्, एवमेतदपि दृश्यम्, भेदाप्रतिपत्तेविवक्षितभेदप्रतिपादनाय भेदपरिमाणनियमाभिधानाय वा सामान्यलक्षणप्रपञ्चव्याख्यानाय वा सक्षेपव्यासाभिधानम्, तत्रास्तित्वनास्तित्वैकान्तनिवारणाय प्रथमद्वितीयौ, एकान्तरूपस्यार्थस्यावस्तुत्वादिति । तृतीयविकल्पाभिधित्सया भाष्यकृदाह
भा०-अर्पितेऽनुपनीते न वाच्यं सदित्यसदिति वा ।
टी०-युगपदात्मन्यस्तित्वनास्तित्वधर्माभ्यामर्पिते विवक्षिते क्रमेण चानुपनीते क्रमेणाभिधातुमविवक्षिते वाच्यं न जातुचित् सदात्मतत्त्वमसदात्मतत्त्वमिति वा । वाशब्दो विकल्पार्थः, अपितं विशेष्यते, कीदृशेऽपिते ? अनुपनीते, कथमनुपनीते? सामर्थ्यात् क्रमेणाविशेषिते, क्रमेण त्वर्पणे प्राच्यविकल्पावेव स्याताम्, अतोऽवश्यंतया युगपदभिन्ने काले द्वाभ्यां गुणाभ्यामेकस्यैवार्थस्याभिन्नस्य प्रतियोगिभ्यामभेदरूपेणैकेन शब्देनावधारणात्मकाभ्यां वक्तुमिष्टत्वादवाच्यम्, तद्विधस्यार्थस्य शब्दस्य चाभावात्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org