SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ १५५ ततश्चावस्थाहानेः पुरुषाभावप्रसङ्गः, अतो बालापेक्षया स्यादस्त्येवेति भवति, तथैकान्तवादिनो नास्त्येवात्मेत्यवधारणेनोक्ते तथैवान्वयिना द्रव्यार्थपुरुषतया स नास्ति, एवमुत्पादविनाशप्रवाहरूपपर्यायात्मिकयाऽपि बालादिवृत्त्या न स्यात्, एवं चात्मनास्तित्वमस्तित्वनिरवकाशं भवेत्, ततश्चान्वयिना नैमित्तिकेन वा रूपेण नास्तित्वमात्मनो वान्ध्येयस्येव सर्वप्रकारमनुषक्तम्, अतस्तदोषापाकरणेन स्यानास्त्येवेत्युच्यते, स ह्यन्वयिन्या वृत्त्या न (?) विद्यते, न सर्वात्मनैव, यतो वर्तमानपर्यायः स्वात्मना बालादिरूपेणास्त्येव, पर्यायपरम्परायामपि वर्तमामपर्यायेणैवास्ति नातीतानागतपर्यायापेक्षणेनेत्यतः स्यानास्त्येवेति । ये त्वस्तित्वनास्तित्वैकान्तवादिनोऽवधारणमिष्टतः प्रयुञ्जतेऽस्त्येवात्मा नास्त्येव चात्मेति, तेषां शब्दशक्तिप्रापितत्वात् सर्वथाऽस्तित्वनास्तित्वप्रसङ्गः । प्रथमविकल्पे तावत् सर्वप्रकारास्तित्वमात्मनः प्रसजति, प्रतिषेधनिरपेक्षत्वादस्तित्वेन स्ववशे व्यवस्थापितत्वादस्तित्वाभावे चात्माभावात्, नास्तित्वस्यापि स्वविषयेऽवधृतत्वात् सति घटे तदप्रसङ्गात्, एकाधिकरणयोश्च सदसतोविरोधात् परस्परविषयानाक्रान्तिः, अत: समस्तवस्तुरूपेणास्त्यात्मा नास्तित्वनिरवकाशास्तिशब्दवाच्यत्वादस्तित्वे स्वात्मवत्, अस्तित्वसामान्येन व्याप्तो न त्वस्तिविशेषैः पटादिभिरिति चेत् यथाऽनित्यमेव कृतकमनित्याभावे तदभावात्, साध्यधर्मसामान्येनेति वचनात्, अनित्यत्वसामान्यमनित्यव्यक्तिश्चेति द्विरूपः साध्यधर्मः, साधनधर्मोऽपि हि द्विप्रकारः, तत्तुल्योऽपि हितानामे(?)त्यादिवचनात्, तथास्वं येन रूपेणेत्याद्यभिधानात्. सामान्यानित्यतया व्याप्तिर्न विशेषानित्यतया, हन्त भवतैव तर्हि प्रतिपन्नः साध्यधर्मभेदस्तथा चावधारणवैयर्थ्यम्, अनित्यत्वे हि सर्वप्रकारे सत्यवधारणसाफल्यं स्यात्, यदा तु विशेषानित्यतया न भवत्यनित्यं वस्तु तदा व्यर्थमवधारणम् । स्वगतेनापि विशेषेणानित्यं भवत्येवेति चेत्, तन्न, तत्रापि स्वगतेनेति विशेषणसामर्थ्यात् परगतविशेषानित्यत्वाभावः, पुनरप्यफलमेवावधारणम् । न चानवधारणो वाक्यप्रयोगः पण्डितजनमनःप्रीतिहेतुः, सर्ववाक्यानां सावधारणत्वादिष्टतश्चावधारणप्रकल्पनादवश्यंतयाऽवधारणमभ्युपेयम्, अन्यथा त्वनित्यं कृतकमनित्यत्वस्यानवधृतत्वान्नित्यत्वप्रसक्तिरपि ॥ अपरे त्वेवंविधप्रसङ्गभीत्या विधाऽवधारणफलं वर्णयन्ति अयोगान्ययोगात्यन्तायोगत्यवच्छेदद्वारेण, क्वचिदेवकारप्रयोगादयोगव्यवच्छेदः, क्वचिदन्ययोगनिरास: वचिदत्यन्तायोगव्युदासः, तत्रायोगोऽसम्बन्धस्तदवच्छेदफलं विशेषणमस्त्येव घट इत्यादावस्तिना सह घटस्यायोगो नास्त्ययोगमात्रं व्यवच्छिद्यते, यथा चैत्रो धनुर्धरः, चैत्रे हि धनुर्धरतायामाशङ्क्यमानायां चैत्रो धनुर्धर एवेत्यवधार्यमाणेनान्येभ्यो धनुर्धरता व्यावर्तते, तद्वदिहापि प्रकृतवस्तुनीति, स्यात् त्वेष दोषो यद्यन्ययोगव्यवच्छेदेन विशेषणं क्रियेत, यथा पार्थो धनुर्धरः पार्थे धनुर्धरतायां प्रतीतायां तादृशी किमन्यत्राप्यस्तीति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002069
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
Author
PublisherVijaybhadra Charitable Trust Bhiladi
Publication Year2008
Total Pages506
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Knowledge
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy