________________
१५४
द्वित्वविवक्षायामुत्पन्नास्तिके वा सती, त्रित्वादिविवक्षायामुत्पन्नास्तिकानि वेति, यत् तत् सदेवं विवक्षया नियम्यते सङ्ख्याभेदेन व्यवहारार्थम् । यच्च परेण द्रव्यास्तिकं मातृकापदास्तिकं वाऽभ्युपेतं तदुत्पन्नमनुत्पन्नं वा स्यात् ? यदि पूर्वः कल्पः अस्मत्समीहितसिद्धिः, अथोत्तरस्ततोऽसदेव द्रव्यास्तिकादि, कथञ्चिदप्युत्पादनेनायोगादत आह-अनुत्पन्नं वाऽनुत्पन्ने वाऽनुत्पन्नानि वा सर्वमसत् स्वलक्षणस्योत्पादस्याभावादिति । एवमुक्तेन प्रकारेण धर्मादि द्रव्यं स्यात् सत् स्यादसत् स्यानित्यं स्यादनित्यमिति प्रतिपाद्यत्वेन सूचितम्, अधुना विपञ्च्यते । तत्र द्रव्यार्थनयप्रधानतायां पर्यायनयगुणभावे च प्रथमविकल्पः, प्राधान्यं शब्देन विवक्षितत्वाच्छब्दाधीनम्, शब्दानुपात्तस्यार्थतो गम्यमानस्याप्रधानता १ । पर्यायनयप्रधानतायां द्रव्यनयगुणभावे च द्वितीयः २ । अर्पितेऽनुपनीते न वाच्यं सदित्यसदिति वेत्यनेन भाष्यवचनेन तृतीयविकल्पो विवक्ष्यते स्यादवक्तव्यमिति ३ । एते त्रयः सकलादेशाः । यदा त्वभिन्नमेकं वस्त्वनेकेन गुणरूपेणोच्यते, गुणिनां च गुणरूपमन्तरेण विशेषप्रतिपत्तेरभावादिहात्मादिरेकोऽर्थः सत्त्वादेरेकस्य गुणस्य रूपेणाभेदोपचारतो मतुब्लोपेन वा निरंशः सकलो व्याप्तो वक्तमिष्यते, विभागनिमित्तस्य प्रतियोगिनो गुणान्तरस्यासत्त्वादेस्तत्रानाश्रयणात्, तत्र द्रव्यार्थाश्रयं सत्त्वगुणमाश्रित्य तदा स्यात् सन्नित्युच्यते सकलादेशः, गुणद्वयं तु गुणिनो भागवृत्ति भवत्युभयात्मकत्वाद् गुणिनः, न त्वेको गुणो भागवृत्तिरिति । एवं स्यानित्य इत्यपि वाच्यम् । तथा पर्यायनयाश्रयमसत्त्वमनित्यत्वं चाङ्गीकृत्य स्यादसत् स्यादनित्य आत्मेति वाच्यम् । युगपत् भावादुभयगुणयोरप्रधानतायां शब्देनाभिधेयतयाऽनुपात्तत्वात् स्यादवक्तव्यः ॥ का पुनर्भावना स्याद् सन्निति ? किमत्र भाव्यम् ? एकं द्रव्यमनन्तपर्यायमतीतानागतानन्तकालसम्बन्ध्यनेकार्थव्यञ्जनपर्यायात्मकतया विश्वरूपम्, तदेवंविधावस्थं वस्तु वर्तमानपर्यायवृत्तमपि येन येन शब्देनोच्यते तेन तेन रूपेण तदभिसम्बद्धम्, द्रव्यस्य पर्यायसचिवत्वात् पर्यायाणां च द्रव्यसहायत्वात्, अतोऽनेकान्तवादसामर्थ्याद् वस्तुनो यदुक्तसूक्तिका, न च व्यवहारविरोधिनी, यथा घटः पटादिरपि भवति स्यात्कारसंलाञ्छनशब्दाभिधेयतायामिति जैनेन्द्रो न्यायः । एवं न्यायव्यवस्थायामनन्तपर्याये पुरुषादौ सप्तधा वाचकः शब्दः प्रवर्तते स्यादस्त्येवेत्यादिः, यथा युवत्ववृत्तिः पुरुषः पुरुषत्वेनास्ति न तु बालवृत्त्या, ततः स्यादस्त्येव न पुनः सर्वात्मनैव पुरुषः द्रव्यार्थेनान्वयिना वर्तमानेन यौवनेन विद्यते, न तु तत्र सम्भविनान्येनापि पर्यायेण बालादिना, यदि पुनरस्त्येवेति नियमेनैवोच्यते तत आमरणकालवृत्तत्वात् पुरुषशब्दपुरुषार्थयोर्नास्तित्वनिरवकाशास्तित्वप्रतिज्ञावशात् यथा पुरुषत्वयौवनाभ्यां विद्यते तथा बालपुरुषतयाऽपि स्यादन्याभिश्च वृत्तिभिः सत्सङ्कीर्णवृत्तिर्भवेत्, नियतवृत्तिश्च दृश्यते, न वा बालता पुरुषस्वभाव एव भवतीत्यभ्युपेयम्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org