SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ १५० वाचित्वात्, तस्माद् यावत्, तत् पलालं तावत्र दह्यते, यदा दह्यते तदा पलालं न भवतीत्यतो नैतावेकस्यार्थस्य प्रत्यायनाय सम्यग्ज्ञानोपजनकारणम्, शब्दान्तरापत्त्यसहिष्णुत्वात् प्रमत्तगीतावेताविति ॥ ___ एवं घटायुदाहरणभावना कार्या । एवं च सदेकक्षणवृत्त्येव, नित्यं पुन:वास्ति वस्तु किञ्चिदिति । एवमजुसूत्रनयेन निरूपिते वस्तुनि शब्दनयस्तव्यावृत्त्यर्थमाहशब्दप्रयोगोऽर्थगत्यर्थः, तत्र वक्तुरर्थानुविधायी शब्दोऽर्थवशात् तस्य शब्दप्रयोगः, श्रोतुः पुनः शब्दवशादर्थप्रतिपत्तिरिति शब्दानुविधाय्यर्थः, शब्दनयाश्च शब्दानुरूपमर्थमिच्छन्ति, यथा शब्दस्तथाऽर्थोऽपि प्रतिपत्तव्यः, समनन्तरनयप्रतिपादितं वर्तमानरूपप्रवृत्तं वस्तु सूक्ष्मतरेण शब्देन भिद्यते, ऋजुसूत्रस्तु वर्तमानानेकधर्मरूपमपि घटशब्देनाभिधीयमानं सम्यगभ्युपैति, यथा मृद्धटोऽस्ति घटो द्रव्यं घट इति, यद्यसौ मृद्रूपेण द्रव्यतया च न स्यादमृद्रव्यं च घटः स्यात्, अतः सोऽसौ तेन रूपेण वृत्तत्वाद् वर्तमानरूपघटवदिति । शब्दनयस्तु वर्तमानकालवृत्तमपि लिङ्गसङ्ख्यापुरुषकालादिभिन्नमवस्त्वेव मन्यते, स्त्रीपुंनपुंसकलिङ्गानां गुणानां भिन्नत्वात् मृद्घटो द्रव्यमिति न सामानाधिकरण्यम्, यथा गौरश्वः संस्त्यानप्रसवस्थितिलक्षणाः परस्परविरुद्धाः खल्वेते गुणाः शीतोष्णादिवत् मृदादिशब्दाच्च भिन्नरूपप्रत्ययप्रसवो दृष्टः, पटकुटादिभिन्नध्वनिवत्, तस्माल्लिङ्गादिभिन्नमसम्यगभिधानम्, तस्यार्थस्य तेन रूपेणाभूतत्वात्, कातरे शूरशब्दप्रयोगवदिति, एवं चाभिन्नलिङ्गसङ्ख्याधुच्यमानं वस्तु वस्तुतामधिवसति, तेन रूपेण वृत्तत्वात्, यथा शूरे शूरशब्दप्रयोगः, समानलिङ्गशब्दाभिधेयतायां च वस्तुनः पर्यायान्तरैः सामानाधिकरण्यं सिध्यति, घटः कुटो हस्ती दन्ती चेति ॥ एवं शब्दनयेनर्जुसूत्रे व्यावर्तिते वस्तुनि चाभिन्नलिङ्गादिशब्दवाच्ये प्रतिष्ठापिते वर्तमानस्याभिन्नलिङ्गादिकस्य वस्तुनः सूक्ष्मतरं भेदमभिधत्ते समभिरूढनयः । न जातुचित् पर्यायान्तरैकाधिकरण्येन शब्दैरुच्यमानं वस्तु यथावस्थितमुक्तं भवति, संज्ञानिमित्तभेदाद् । द्विविधा संज्ञा पारिभाषिकी नैमित्तिकी च, तत्र पारिभाषिकी नार्थतत्त्वं ब्रवीति, यहच्छामात्रप्रवृत्तत्वात्, नैमित्तिकी तु सर्वेव संज्ञा युक्ता, यथाऽऽह "नाम च धातुजमाह निरुक्ते, व्याकरणे शकटस्य च तोकम् । यन्न विशेषपदार्थसमुत्थम्, प्रत्ययतः प्रकृतेश्च तदूह्यम् ॥" एवं च सर्वे क्रियानिमित्ताः शब्दाः धातुजत्वानिमित्तभेदाच्चार्थभेदो दृष्टश्छत्रिदण्ड्यादिवत्, अतो यां यां संज्ञामभिधत्ते तां तां समभिरोहतीति समभिरूढस्तामेवैकामारोहति, द्वितीयां निमित्तान्तरवृत्तां न क्षमते, तस्माद् वर्तमानेनाभित्रलिङ्गादिनाऽप्येकेनैव ध्वनिनाभिधीयमानोऽर्थः सम्यगुक्तो भवति, नान्यथेति ॥ -- क्रियाभेदादित्थं समभिरूढनयेन प्रतिपादित वस्तुन्येवंभूतनयः तद्वस्तु सूक्ष्मतरभेदं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002069
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
Author
PublisherVijaybhadra Charitable Trust Bhiladi
Publication Year2008
Total Pages506
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Knowledge
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy