SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ नोत्पन्नास्तिकाद् विविच्यत इति पर्यायनयपरिग्रहः, तदेवं चतुर्भिरपि विकल्पैन्यद्वयी प्रतिपिपादयिषिता, एवं तर्हि द्रव्यादिचतुष्टयी किमर्थेति चेत्, तदुच्यते उभयनयस्वभावप्रदर्शनार्था चतुष्टयो । एवमेतान्यन्यव्याख्यानान्यालोच्य भाष्यं कथमपि गमनीयम्, स्वव्याख्यानानुसारेण तावदुच्यते पर्यायनयश्चोत्पादविनाशाद् द्वैविध्यप्रदिदर्शयिषया भाष्यकारेणोपचक्रमे, उत्पन्नास्तिकं पर्यायास्तिकमिति । स एष पर्यायनयमहाविटपी प्रौढदृढानवद्यर्जुसूत्रनयादभ्रस्कन्धः सुप्रतिष्ठिताधारनानागमगहनशब्दनयशाखस्तदाश्रयसमभिरूद्वैवंभूतविविधविकल्पप्रशाखोऽर्थशब्दज्ञानशून्यताङ्कुरपत्रपुष्पफलोपशोभितः पर्यायप्रधानत्वादुत्पादविनाशमात्रजलावसेकसंवर्धनीयः प्रतन्यते, तत्रर्जुसूत्रः कुटिलातीतानागतपरिहारेण वर्तमानक्षणावच्छिन्नवस्तुसत्तामात्रमृजें सूत्रयतिअन्यतो व्यवच्छिनत्ति सूत्रपातवत्, न ह्यतीतमनागतं वाऽस्ति, यदि स्यातामतीतानागते न तर्हि मृतपुत्रिका युवतिः पुत्रकमुद्दिश्य रुद्यात्, न च पुत्रार्थिनी योषिदौपयाजिकादिविशिष्टदेवतासन्निधौ विदध्यात्, तद्धि वस्तु वर्तमानक्षणावस्थाय्येव, न जातुचित् ततः परं सत्तामनुभवति, नाप्यतीतकालासादितात्मलाभं किञ्चित् तत्रान्वेति, स्वकारणकलापसामग्रीसन्निधावुत्पाद्य स्वरसभङ्गरतामवलम्बन्ते तत्क्षणमात्रावलम्बिनः सर्वसंस्काराः । एवं च सति य एते कर्तृभूतद्रव्यशब्दसन्निधौ क्रियाशब्दाः प्रयुज्यन्ते यथा देवदत्तः पचति पठति गच्छतीति कर्मभूतद्रव्यशब्दसन्निधौ वा यथा घटो भिद्यते घटं वा भिनत्तीत्येवमादयो न यथार्थाः, कथम् ? यतो नामशब्देनाविकृतरूपस्य द्रव्यस्याभिधानात्, क्रियाशब्देन च विकारस्य प्रतिपाद्यत्वात् न च विकाराविकारयोरैकाधिकरण्यमस्ति, विरुद्धत्वात्, अर्थप्रत्यायनाय हि प्रयुक्तः शब्दो विरुद्धमर्थं प्रतिपादयनैव सम्यग्ज्ञानमाधत्ते, अयथार्थत्वात्, मृगतृष्णायां सलिलशब्दवदिति उक्तार्थसंवादी च श्लोको गीतः पुराविदा "पलालं न दहत्यग्नि-भिद्यते न घटः क्वचित् । नासंयतः प्रव्रजति, भव्योऽसिद्धो न सिद्ध्यति ॥" पलालं दह्यत इति यद् व्यवहारस्य वाक्यं तद् विरुध्यते, अत्र वाक्ये वाक्यार्थप्रतिपत्तये पदार्थप्रविभागकाले पलालशब्दो विशिष्टाकारद्रव्यवचनो नाम शब्दः तद्धि द्रव्यं यावत् तस्मिन्नेवाकारे वर्तते तावदेव पलालशब्दवाच्यम्, अन्यदा तु पलालभावेन तस्याभाव एव, तद्भावेनाभावात् पटवत्, तस्मात् स्थिररूपमव्यापारमुदासीनमविकृतं पलालशब्देन वस्तु प्रतिपादितम्, कथं तदेव दह्यत इत्यनेन शब्देनोच्येत ? क्रियाशब्दस्य विकाराभिधायित्वात्, न हि स एवार्थो विकारश्चाविकारश्च भवितुमुत्सहते, यदि हि तत् पलालं न तर्हि तदेव दह्यते, अविपरिणतत्वात्, प्रागवस्थावत्, विपरिणममानं च पलालमेव तन्न भवति, विपरिणामशब्दस्य भावान्तर ૨૮ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002069
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
Author
PublisherVijaybhadra Charitable Trust Bhiladi
Publication Year2008
Total Pages506
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Knowledge
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy