________________
१०७ शब्दब्रह्मणि निष्णातः, परं ब्रह्माधिगच्छति ॥१॥ एतानि च पराणि ब्रह्माणि वरिष्ठानि यानि प्रागहिंसादीन्युक्तानीति, एतद्रूपमेवेह ब्रह्मोच्यते, तेन ब्राह्मणो भवति, 'ज्ञानेन'-हिताहितावगमरूपेण मुनिर्भवति 'तपसा'-बाह्याभ्यन्तरभेदभिन्नेन भवति तापसः, सर्वत्राभिधानान्यथाऽनुपपत्तिरिह हेतुः । (उत्तरा० अध्य० २५. गा० २९३०) । 1977
[90] सांप्रतमुक्तगुणानुवादतः फलोपदर्शनतश्च तस्यैव माहात्म्यमाहसमुहगंभीरसमा दुरासया, अचक्किया केणइ दुष्पहंसया । सुयस्स पुण्णा विउलस्स ताइणो, खवेत्तु कम्मं गइमुत्तमं गया ॥३१॥
व्या० समुद्दगम्भीरसमत्ति आर्षत्वाद् गाम्भीर्येण अलब्धमध्यात्मकत्वेन गुणेन समा गाम्भीर्यसमाः समुद्रस्य गाम्भीर्यसमाः समुद्रगाम्भीर्यसमाः, दुरासयत्ति दुःखेनाश्रीयन्ते-अभिभवबुद्ध्याऽऽसाद्यन्ते वा-जेतुं संभाव्यन्ते केनापीति दुराश्रया दुरासदा वा, अत एव अचक्कियत्ति-अचकिताः-अत्रासिताः, केनचिदितिपरीषहादिना परप्रवादिना वा, तथा दुःखेन प्रधय॑न्ते-पराभूयन्ते केनापीति दुष्प्रधर्षास्त एव दुष्प्रधर्षकाः, क एवंविधाः ? इत्याह-सुयस्स पुण्णा विउलस्स' त्ति-सुब्व्यत्ययाच्छ्रुतेन-आगमेन पूर्णाः-परिपूर्णा विपुलेन-अङ्गानङ्गादिभेदतो विस्तीर्णेन तायिनः त्रायिणो वा एवंविधाश्च बहुश्रुता एव, तानेव फलतो विशेषयितुमाह-क्षपयित्वा'-विनाश्य कर्म-ज्ञानावरणादि, गम्यत इति गतिस्ताम् 'उत्तमां-प्रधानाम, मुक्तिमिति यावत्, गताः-प्राप्ताः, उपलक्षणत्वाद् गच्छन्तिगमिष्यन्ति च । इहैकवचनप्रक्रमेऽपि बहुवचननिर्देशः, पूज्यताख्यापनार्थं व्याप्तिप्रदर्शनार्थं चेति सूत्रार्थः । (उत्त० अ० ११ गा० ३१) 19/8
191] 'जीवाऽजीवाऽऽश्रव-बन्ध-संवर-निर्जरा-मोक्षास्तत्त्वम्' (त० सू० १।४) इत्युभयवादागमप्रतिपाद्यान् भावांस्तथैवाऽसंकीर्णरूपान् प्रतिपादयन् सैद्धान्तिकः पुरुषः, इतरस्तु तद्विराधक इत्याह
जो हेउवायपक्खम्मि, हेडओ आगमे य आगमिओ । सो ससमयपण्णवओ, सिद्धन्तविराहओ अन्नो ॥४५॥
यो हेतुवादागमविषयमर्थं हेतुवादागमेन, तद्विपरीतागमविषयं चार्थमागममात्रेण प्रदर्शयति वक्ता स स्वसिद्धान्तस्य द्वादशाङ्गस्य प्रतिपादनकुशलः, अन्यथा प्रतिपादयंश्च-तदर्थस्य प्रतिपादयितुमशक्यत्वात् तत्प्रतिपादके वचस्यनास्थादिदोषमुत्पादयन् सिद्धान्तविराधको भवति, सर्वज्ञप्रणीतागमस्य निस्सारताप्रदर्शनात् तत्प्रत्यनीको
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org