________________
भा०-अत्राह-एवमिदानीमेकस्मिन्नर्थेऽध्यवसायनानात्वात् ननु विप्रतिपत्तिप्रसङ्ग इति । अत्रोच्यते - __टी०-एवमिदानीमेकस्मिन्नित्यादिना भाष्येण । एवमिति यथा प्रतिपादितैरेकवस्तुनि परस्परविलक्षणैर्भेदैः, इदानीमित्येतत् पूर्वाभिहितनयवादकालापेक्षया प्रयुज्यते, एवमवस्थिते नयप्रस्थानेऽधुना इदमापनीपद्यते-एकस्मिन्नर्थे घटवस्तुनि, बहुष्वर्थेषु न दोषाशङ्काऽस्ति, प्रतिवस्तु नयप्रवृत्तेः, एकस्मिन् पुनरध्यवसायनानात्वाद् विज्ञानभेदात्, ननुशब्दो मीमांसायाम्, मीमांसनीयमेतदेवम्, विप्रतिपत्तिप्रसङ्ग इति, विरुद्धत्वप्रतीतिर्विप्रतिपत्तिस्तस्याः प्रसङ्गोऽनिष्टमितियावत्, न ह्येकमेव वस्तु सामान्यं सत् पुनर्विशेषो भवति, त्रिकालिकः वर्तमानक्षणावधिको वा, नामादित्रयनिरासाद् वा भावमात्रं पर्यायशब्दानभिधेयो वा विशिष्टक्रियाविष्टो वा वस्तुविशेष इति, विरुद्धाः प्रतीतयः सकलाः प्रतीयन्त इति, न च विरुद्धप्रतीतिकः पदार्थो निश्चेतुं शक्यते, न चानिश्चयात्मकं तत्त्व-ज्ञानमित्याकुमारसिद्धिः। शास्त्रकारस्तु येनाभिप्रायेण ज्ञेयस्यार्थस्याध्यवसायान्तराण्येतानीत्युक्तवान् तं प्रचिकटयिषुराह- अत्रोच्यते विप्रतिपत्तिपरिहारः____ भा०-यथा सर्वमेकं सदविशेषात् । सर्वं द्वित्वं जीवाजीवात्मकत्वात्। सर्वं त्रित्वं द्रव्यगुणपर्यायावरोधात् । सर्वं चतुष्टयं चतुर्दर्शनविषयावरोधात्। सर्वं पञ्चत्वं पञ्चास्तिकायात्मकत्वात् । सर्वं षट्कं षड्द्रव्यावरोधादिति। यथैता न विप्रतिपत्तयोऽथ चाध्यवसायस्थानान्तराण्येतानि, तद्वन्नयवादा इति ॥
___टी०-यथेत्यादि । सकलं जगदनेकावयवात्मकमपि सत्तामात्रव्याप्तेरविशेषादेकमुच्यते । एकं च सद् द्विधा, जीवाजीवमात्रविवक्षावशात्, । कथं पुनरेकसङ्ख्याव्यवच्छिन्नं सद् द्वित्वसङ्ख्याया गोचरीभवति ?, न च काल्पनिकमेतत्, अंशसद्भावात्, तस्मानास्ति विरोधः, एवं नयेष्वप्यविरोधप्रतिपत्तिः साधीयसीति । तथा तदेवैकं विधा, द्रव्यगुणपर्यायेषु सर्वस्यावरुद्धत्वाद्, गुणपर्यायाणामन्वयि द्रव्यम्, गुणारूपादयः, पर्यायाः-कपालादयः, सहभूत्वं क्रमभूत्वं चादाय भेदेनोपादानमिति । तथा तदैवैकं चतुर्धा, चक्षुर्दर्शनादिभिश्चतुर्भिः सर्वस्य विषयीकृतत्वात् तन्मात्रता । तथा तदेव पञ्चस्वभावं निरूप्यते, पञ्चास्तिकायात्मकत्वात्, एतदाह-सर्वं पञ्चत्वमस्तिकायावरोधात्, पञ्चस्वभावं सर्वमिदं जगत्, पञ्चभिरस्तिकायैरवरुद्धत्वात्, धर्माधर्माकाशजीवपुद्गलास्तिकायात्मकं यतः । तथा तदेव पञ्चस्वभावं षट्स्वभावम्, षद्रव्यसमन्वितत्वात्, तदाहसर्वं षट्कं षड्द्रव्यावरोधात, सर्वं षट्स्वभावम् जगत्, कुतः ? षड्द्रव्यावरोधादिति। षड् द्रव्याणि कथम् ? उच्यते-पञ्च धर्मादीनि कालश्चेत्येक इति । यथा-येन प्रकारेण एताः एकद्वित्रिचतुःपञ्चषडात्मिका अवस्थाः एकत्र जगत्युपादीयमाना न विरुद्धाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org