________________
८२
भा०-तेष्वेव साम्प्रतेषु नामादीनामन्यतमग्राहिषु प्रसिद्धपूर्वकेषु घटेषु सम्प्रत्ययः साम्प्रतः शब्दः ॥
टी०-तेष्वेवेत्यादि । ऋजुसूत्राभिप्रेतेषु वर्तमानकालावधिकेषु नामस्थापनाद्रव्यभावघटानां ये वाचकाः शब्दास्ते चान्यतमग्राहिणः, यस्माद् यस्य शब्दस्य नम्यमानः पदार्थो वाच्यो न तस्य स्थापना यस्य वा स्थापना न तस्य द्रव्यम्, यस्य द्रव्यं न तस्य भावः इत्यतो नामादीनां घटानां ये शब्दाः अन्यतमं-नामस्थापनादिकं गृह्णन्ति तेऽन्यतमग्राहिणस्तेषु शब्देषु उच्चारितेष्वन्यतमग्राहिषु यद् विज्ञानं स साम्प्रतः, ते शब्दा यदि प्रसिद्धाः पूर्वं भवन्ति निर्जाताभिधेयसम्बन्धाः अस्येदं वाच्यमित्यनेन रूपेण, तथा गमका इत्येतदाह-प्रसिद्धपूर्वकेषु, प्रसिद्धः पूर्वो येषां प्रथमं सङ्केतस्ते प्रसिद्धपूर्वकास्तेषु नामादीनामन्यतमवाचकेषु सम्प्रत्यय इति ॥
समभिरूढमतोबिभावयिषया आह
भा०-तेषामेव साम्प्रतानामध्यवसायासक्रमो वितर्कध्यानवत् समभिरूढः॥
टी०-तेषामेव घटानां सतां-विद्यमानानां वर्तमानकालावधिकानां सम्बन्धी योऽध्यवसायासक्रमः स समभिरूढः, अध्यवसायो-विज्ञानं तस्य विज्ञानस्योत्पादकत्वाभिधानमप्यध्यवसायस्तस्यासक्रमः-अन्यत्र वाच्येष्वप्रवृत्तिः, नहि घट इत्यस्याभिधानस्य कुटो वाच्यः, कुट इत्यस्य वा घट इति । अध्यवसायासक्रमं च दृष्टान्तेन भावयतिवितर्कध्यानवदिति । अन्यतमैकयोगानामेकत्वं वितर्कमिति वक्ष्यति नवमेऽध्याये (सू० ४१), वितर्कः श्रुतम्, वितर्कप्रधानं ध्यानं वितर्कध्यानं तद्वत् ॥ नन्वाद्येऽपि शुक्लभेदे वितर्कप्रधानता समस्ति ? नैवम्, तत्र सङ्क्रमाभ्युपगमात् 'अविचारं द्वितीयम्' (अ० ९, सू० ४४) इति वचनात् एकत्ववितर्कपरिग्रह इति ॥
एवम्भूताभिप्रायमाविष्करोतिभाo-तेषामेव व्यञ्जनार्थयोरन्योन्यापेक्षार्थग्राहित्वमेवम्भूत इति ॥
टी०-तेषामेवेत्यादि । तेषामेवानन्तरनयपरिगृहीतघटानां यौ व्यञ्जनार्थो तयोरन्योन्यापेक्षार्थग्राही योऽध्यवसायः स एवम्भूतः परमार्थः व्यञ्जनं वाचकः शब्दः, अर्थोऽभिधेयो वाच्यः । अथ का पुनरन्योन्यापेक्षा ?, यदि यथा व्यञ्जनं तथार्थो यथा चार्थस्तथा व्यञ्जनम्, एवं हि सति वाच्यवाचकसम्बन्धो घटते अन्यथा न, योग्यक्रियाविशिष्टमेव वस्तुस्वरूपं प्रतिपद्यत इति ॥
एवं भाविते नयानामभिप्राये चोदकः स्वाभिप्रायमभिव्यनक्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org