________________
७०
वैरिभिराक्रान्तेषु रोगपीडितेषु मृत्युमुखमधिशयितेष्विव याचमानेषु-प्रार्थयमानेषु जीवितं-प्राणत्राणम् । एषु दीनादिषु 'अहो कुशास्त्रप्रणेतारः तपस्विनो यदि कुमार्गप्रणयनान्मोच्येरन्, भगवानपि हि भुवनगुरुः उन्मार्गदेशनात् सागरोपमकोटीकोटी यावद्भवे भ्रान्तः, तत् काऽन्येषां स्वपापप्रतीकारं कर्तुमशक्नुवतां गतिः ?', तथा 'धिगमी विषयार्जनभोगतरलहृदया अनन्तभवानुभूतेष्वपि विषयेष्वसंतृप्तमनसः कथं नाम प्रशमामृततृप्ततया वीतरागदशां नेतुं शक्याः ?' इति, तथा 'बाल-वृद्धादयोऽपि विविधभयहेतुभ्यो भीतमनसः कथं नामैकान्तिकात्यन्तिकभयवियोगभाजनीकरिष्यन्ते ?' इति, तथा 'मृत्युमुखमधिशयिताः स्वधन-दार-पुत्रादिवियोगमुत्प्रेक्षमाणा मारणान्तिकी पीडामनुभवन्तः सकलभयरहितेन पारमेश्वरवचनामृतेन सिक्ताः कथमजरामरीकरिष्यन्ते ?' इत्येवं प्रतीकारपरा या बुद्धिः, न तु साक्षात्प्रतीकार एव, तस्य सर्वेष्वशक्यक्रियत्वात्, सा कारुण्यमभिधीयते । या तु अशक्यप्रतीकारेषु 'सर्वान् जन्तून् मोचयित्वा मोक्षं यास्यामि' इति सौगतानां करुणा न सा करुणा, वाङ्मात्रत्वात्, न ह्येवं शक्यं भवितुं 'सर्वसंसारिषु मुक्तेषु मया मोक्तव्यम्' इति, संसारोच्छेदप्रसङ्गेन सर्वसंसारिणां मुक्त्यभावात्, तस्माद्वाङ्मात्रमेतत् मुग्धजनप्रतारकं सौगतानां कारुण्यम् । एतच्च कुर्वन् हितोपदेश-कालापेक्षान्न-पाना-ऽऽश्रय-वस्त्र-भेषजैरपि ताननुगृह्णातीति ॥१२०॥
अथ माध्यस्थ्यस्वरूपमाह - कूरकर्मसु निःशङ्कम्, देवतागुरुनिन्दिषु ।
आत्मशंसिषु योपेक्षा, तन्माध्यस्थ्यमुदीरितम् ॥१२१॥ क्रूराणि-अभक्ष्यभक्षणा-ऽपेयपाना-ऽगम्यागमन-ऋषिबालस्त्रीभ्रूणघातादीनि कर्माणि येषां तेषु, तेऽपि कदाचिदवाप्तसंवेगा नोपेक्षणीयाः स्युरत आह-देवतागुरुनिन्दिषु, देवताश्चतुस्त्रिंशदतिशयादियुक्ता वीतरागाः, गुरवः तदुक्तानुष्ठानस्य पालका उपदेष्टारश्च, तान् रक्त-द्विष्ट-मूढ-पूर्वव्युद्ग्राहिततया निन्दन्तीत्येवंशीलाः तेषु, तथाविधा अपि कथञ्चन वैराग्यदशापन्ना आत्मदोषदर्शिनो नोपेक्षणीयाः स्युरित्याह-आत्मशंसिषु-आत्मानं सदोषमपि शंसन्ति प्रशंसन्तीत्येवंशीला आत्मबहुमानिन इत्यर्थः, तेषु मुद्गशैलेष्विव पुष्करावर्त्तवारिभिर्मदूकर्तुमशक्येषु देशनाभिः योपेक्षा तन्माध्यस्थ्यमुदीरितम् ॥१२१॥ (यो०शा० प्र० ४. गा० ११८-१२१) । 16/1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org