________________
[70] तत्र मैत्रीस्वरूपमाह
मा कार्षीत्कोऽपि पापानि मा च भूत् कोऽपि दुःखितः । मुच्यतां जगदप्येषा, मतिमैत्री निगद्यते ॥ ११८ ॥
कोऽपि जन्तुरुपकार्यनुपकारी वा पापानि दुःखनिबन्धनानि मा कार्षीत्पापकरणनिषेधात् मा च भूत् कोऽपि दुःखितः । जगदिति तांस्तान् देवमानुष-तिर्यग्-नारकपर्यायानत्यर्थं गच्छतीति जगत् प्राणिजातम् । अपिशब्दान्नैकः कश्चित्, किन्तु सकलं जगत् मुच्यतां - मोक्षमाप्नुयादित्यर्थः । एषा - उक्तस्वरूपा मतिमैत्रीशब्देनोच्यते । न हि कस्यचिदेकस्य मित्रं मित्रं भवति, व्याघ्रादेरपि स्वापत्यादौ मैत्रीदर्शनात् तस्मादशेषसत्त्वविषया मैत्री मैत्री । एवं 'कृतापकाराणामपि सर्वसत्त्वानां मित्रतां व्यवस्थाप्य क्षमेऽहं सम्यग्मनोवाक्कायैर्येषां च मयाऽपकारः कृतस्तानपि सर्वान् क्षमयेऽहम्' इति मैत्रीभावना ॥१८॥ अथ प्रमोदस्वरूपमाह
अपास्ताशेषदोषाणाम्, वस्तुतत्त्वावलोकिनाम् ।
गुणेषु पक्षपातो यः, स प्रमोदः प्रकीर्त्तितः ॥ ११९॥ अपास्ता अशेषा दोषाः - प्राणिवधादयो यैस्तेषाम् । तथा वस्तुतत्त्वमवलोकन्त इत्येवंशीलास्तेषाम् । अनेन ज्ञान - क्रियाद्वयं मोक्षहेतुमाह यदाह
भाष्यकार:
-
६९
" नाणकिरियाहि मोक्खो" [विशेषावश्यकभाष्ये गा० ३] इति । एवंविधानां मुनीनां गुणेषु-क्षायोपशमिकादिभावावर्जितेषु शम-दमौचित्य-गाम्भीर्यधैर्यादिषु यः पक्षपातो विनय - प्रयोग - वन्दन - स्तुति-वर्णवाद - वैयापृत्यकरणादिभिः परात्मोभयकृतपूजाजनितश्च सर्वेन्द्रियाभिव्यक्तो मनः प्रहर्षः स प्रमोदः प्रकीर्तितः ॥११९॥
૨૩
अथ कारुण्यस्वरूपमाह
दीनेष्वार्तेषु भीतेषु, याचमानेषु जीवितम् । प्रतीकारपराबुद्धिः, कारुण्यमभिधीयते ॥ १२० ॥
दीनेषु-मतिश्रुताज्ञानविभङ्गबलेन प्रवर्तितकुशास्त्रेषु स्वयं नष्टेषु परानपि नाशयत्सु अत एव दयास्पदत्वाद्दीनेषु । तथाऽऽर्त्तेषु - नवनवविषयार्जनपूर्वार्जितपरिभोगजनिततृष्णाग्निना दन्दह्यमानेषु हिताहितप्राप्तिपरिहारविपरीतवृत्तिषु अर्थार्जन - रक्षण-व्यय-नाशपीडावत्सु च । तथा भीतेषु - विविधदुःखपीडिततया अनाथ - कृपण-बाल-वृद्ध - प्रेष्यादिषु सर्वतो बिभ्यत्सु । तथा
Jain Education International
-
For Private & Personal Use Only
www.jainelibrary.org