________________
५०
ते (१) चाविभागा एकैकस्मिन् जीवप्रदेशे यावन्तो भवन्ति तावन्त (त)
आह
पण्णाछेयणछिन्ना, लोगासंखेज्जगप्पएससमा । अविभागा एक्क्के, होंति पएसे जहन्त्रेणं ॥६॥
पण्णेति - प्रज्ञाच्छेदनकेन छिन्नाः सन्तो ये वीर्यस्याविभागा जातास्ते एकैकस्मिन् जीवप्रदेशे चिन्त्यमाना जघन्येनाप्यसंख्येयलोकाकाशप्रदेशप्रमाणा भवन्ति । उत्कर्षतोऽप्यसंख्येयलोकाकाशप्रदेशप्रमाणा एव । किन्तु ते जघन्यपदभाविवीर्याविभागापेक्षयाऽसंख्येयगुणा द्रष्टव्या इति ॥६॥
उक्ताऽविभागप्ररूपणा, संप्रति (२) वर्गणाप्ररूपणामाह
जेसिं पएसाण समा, अविभागा सव्वतो य थोवतमा । ते वग्गणा जहन्ना, अविभागहिया परंपरओ ॥ ७ ॥
जेसिमिति - येषां जीवप्रदेशानां समास्तुल्यसंख्या वीर्याविभागा भवन्ति । सर्वतश्च सर्वेभ्योऽपि चान्येभ्योऽपि जीवप्रदेशगतवीर्याविभागेभ्यः स्तोकतमाः ते जीवप्रदेशा घनीकृतलोकासंख्येयभागवर्त्यसंख्येयप्रतरगतप्रदेशराशिप्रमाणाः समुदिता एका वर्गणा । सा च जघन्या, स्तोकाऽविभागयुक्तत्वात् । अविभागाधिका परंपरत इति, ततः परा वर्गणा एकैकेनाविभागेनाधिका वक्तव्या । तद्यथा - जघन्यवर्गणातः परे ये जीवप्रदेशा एकेन वीर्याविभागेनाभ्यधिका घनीकृतलोकासंख्येयभागवर्त्यसंख्येयप्रतरगत प्रदेशराशिप्रमाणा वर्तन्ते तेषां समुदायो द्वितीया वर्गणा । ततः परं द्वाभ्यां वीर्याविभागाभ्यामधिकानामुक्तसंख्याकानामेव जीवप्रदेशानां समुदायस्तृतीया वर्गणा । ततोऽपि त्रिभिर्वीर्याविभागैरधिकानां तावत्संख्याकानामेव जीवप्रदेशानां समुदायश्चतुर्थी वर्गणा । एवमेकैकवीर्याविभागवृद्ध्या वर्धमानानां तावतां तावतां जीवप्रदेशानां समुदायरूपा वर्गणा असंख्येया वक्तव्या इति ||७||
ताश्च कियत्य इति तन्निरूपणार्थं (३) स्पर्धकप्ररूपणामाहसेढिअसंखिअमित्ता, फड्डुगमेत्तो अनंतरा नत्थि । जाव असंखा लोगा, तो बीयाई य पुव्वसमा ॥८॥
सेढीति—इह घनीकृतस्य लोकस्य या एकैकप्रदेशपङ्क्ति रूपा श्रेणिस्तस्याः श्रेणेरसंख्येयतमे भागे यावन्त आकाशप्रदेशास्तावन्मात्रास्तावत्प्रमाणा यथोक्तस्वरूपा वर्गणाः समुदिता एकं स्पर्धकम्, स्पर्धन्त इवोत्तरोत्तरवृद्ध्या वर्गणा अत्रेति स्पर्धकमा कृद्बहुलमिति ( श्रीम. कृ. १ - ११) वचनादधिकरणे वुञ् । उक्ता स्पर्धकप्ररूपणा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org