________________
४९ क्वचित्स्तोकतरमित्येवं वैषम्येण वीर्यमुपलभ्यत इत्यत आह-कज्जेत्यादि, यदर्थं चेष्टते तत्कार्यम्, तस्याभ्याशः, अभ्यशनमभ्याशः-अशूङ् व्याप्तावित्यस्याभिपूर्वस्य घजन्तस्य प्रयोगः, कार्याभ्याशः-कार्यस्यासन्नता निकटीभवनमित्यर्थः । तथा जीवप्रदेशानामन्योऽन्यं परस्परं प्रवेशः शृङ्खलावयवानामिव परस्परं संबन्धविशेषः। ताभ्यां कृत्वा विषमीकृताः (स्व)प्रभूताल्पाल्पतरसद्भावतो विसंस्थुलीकृताः प्रदेशा जीवप्रदेशा येन जीववीर्येण तत्कार्याभ्याशान्योऽन्यप्रवेशविषमीकृतप्रदेशम् । तथाहियेषामात्मप्रदेशानां हस्तादिगतानामुत्पाट्यमानघटादिलक्षणकार्यनैकट्यम्, तेषां प्रभूततरा चेष्टा । दूरस्थानामंसा(शा)दिगतानां स्वल्पा । दूरतरस्थानां तु पादादिगतानां स्वल्पतरा। अनुभवसिद्धं चैतत् । अपि च लोष्ठादिनाऽभिघाते सति यद्यपि सर्वप्रदेशेषु युगपद्वेदनोपजायते, तथापि येषामात्मप्रदेशानामभिघातकलोष्ठादिद्रव्यनैकट्यं तेषां तीव्रतरा वेदना, शेषाणां तु मन्दा मन्दतरा । तथेहापि जीवप्रदेशेषु परिस्पन्दात्मकं वीर्यमुपजायमानं कार्यम्, द्रव्याभ्याशवशतः केषुचित्प्रभूतमन्येषु मन्दमपरेषु तु मन्दतमं भवति । एतच्चैवं जीवप्रदेशानां परस्परं संबन्धविशेषे सति भवति, नान्यथा, यथा शृङ्खलावयवानाम् । तथाहि-तेषां शृङ्खलावयवानां परस्परं संबन्धविशेषे सति एकस्मिन्नवयवे परिस्पन्दमानेऽपरेऽप्यवयवाः परिस्पन्दन्ते। केवलं केचित् स्तोकमपरे स्तोकतरमिति । संबन्धविशेषाभावे त्वेकस्मिन् चलति नापरस्यावश्यंभावि चलनम्, यथा गोपुरुषयोः, तस्मात्कार्यद्रव्याभ्याशवशतो जीवप्रदेशानां परस्परं संबन्धविशेषतश्च वीर्यं जीवप्रदेशेषु केषुचित्प्रभूतमन्येषु स्तोकमपरेषु तु स्तोकतरमित्येवं वैषम्येणोपजायमानं न विरुध्यत इति ॥४॥
तदेवं वीर्यं प्रतिपाद्य संप्रत्यस्यैव जघन्याजघन्योत्कृष्टानुत्कृष्टत्वपरिज्ञापनाय प्ररूपणां चिकीर्षुरिमानाधिकारानाह
अविभागवग्गफड्डगअंतरठाणं अणंतरोवणिहा । जोगे परंपरावुविसमयजीवप्पबहुगं च ॥५॥
अविभागेति-योगे-योगविषये । प्रथमतोऽविभागप्ररूपणा कार्या १ । ततो वर्गणाप्ररूपणा २ । ततः स्पर्धकस्य प्ररूपणा ३ । तदनन्तरमन्तरप्ररूपणा ४ । ततः स्थानप्ररूपणा ५ । ततोऽनन्तरोपनिधा ६ । ततः परंपरोपनिधा ७ । तदनन्तरं वृद्धिप्ररूपणा ८ । ततः समयप्ररूपणा ९ । ततो जीवानामल्पबहुत्वप्ररूपणेति १० । तत्र यस्यांशस्य प्रज्ञाच्छेदनकेन विभागः कर्तुं न शक्यते सोऽशोऽविभाग उच्यते । किमक्तं भवति ? इह जीवस्य वीर्यं केवलिप्रज्ञाच्छेदनकेन छिद्यमानं छिद्यमानं यदा विभागं न प्रयच्छति, तदा सोऽन्तिमोऽशोऽविभाग इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org