________________
भवति । तथा च-'यः सद्विवेको नासौ प्राप्तमप्राप्तकाङ्क्षया' इत्यादौ सद्विवेकत्वमनैकान्तिको हेतुः, न ह्ययमेकान्तः यथा प्राप्तमप्राप्तार्थे न परिहियते, प्राप्तस्याप्यपायहेतोः तदुच्छेदकाप्राप्त्यर्थं विवेकिभिः परिहियमाणत्वाद्, अनभ्युपगतोपालम्भश्चायम्, मुमुक्षूणां क्वचिदाकाङ्क्षाया एवासम्भवात् उक्तं हि-'मोक्षे भवे च सर्वत्र. निःस्पृहो मुनिसत्तमः इति सूत्रार्थः ॥ (उत्तरा० अ०९ गा०५३) 7/1...3 [26] सुवण्णरूपस्स य पव्वया भवे, सिया हु केलाससमा असंखया ।
नरस्स लुद्धस्स न तेहि किंचि, इच्छा हु आगाससमा अणंतया ॥४८॥
व्या०-सुवर्णं च रूप्यं च सुवर्णरूप्यमिति समाहारस्तस्य, 'तुः'-पूरणे, यद्वाऽऽर्षत्वाद् विभक्तिलोपः, तुशब्दः समुच्चये, ततः स्वर्णस्य रूप्यस्य च पर्वता इव पर्वता:-पर्वतप्रमाणाः राशयो 'भवन्ति'-भवेयुः, पर्वतप्रमाणत्वेऽपि च लघुपर्वतप्रमाणा एव स्युरत आह-'सिया हुत्ति स्यात्-कदाचित्, हुरवधारणे भिन्नक्रमश्च, ततः 'केलाससमा' एव कैलासपर्वततुल्या एव, न त्वन्यलघुपर्वतप्रमाणाः, तेऽपि 'असङ्ख्यकाः' सङ्ख्याविरहिताः, न तु द्वित्रा एव, नरस्य लुब्धस्य, उपलक्षणत्वात् स्त्रियाः पण्डकस्य वा, न तैः कैलाशसमैरपि सुवर्णरूप्यपर्वतैः 'किञ्चिदपि' अल्पमपि परितोषोत्पादनं प्रतिक्रियत इति शेषः पठ्यते च न तेणं ति अत्र च सूत्रत्वाद् वचनव्यत्ययः, कुतः पुनरिदमित्याहइच्छा-अभिलाषः, हुरिति यस्मादाकाशेन समा तुल्या आकाशसमा अनन्तिकाअन्तरहिता तथा चैतदनुवादी वाचक:-न तुष्टिरिह शताज्जन्तोर्न सहस्रान्न कोटितः । न राज्यान्नैव देवत्वान्नेन्द्रत्वादपि विद्यते ॥१॥ (उत्तरा०अ०९ गा०४८)7/2 [27] विसयविसं हालाहलं, विसयविसं उकडं पियंताणं ।
विसयविसाइन्नं पिव, विसयविसविसूइया होइ ॥२१३॥ "विसय०' गाहा, विषया एव मारणात्मकत्वात् विषं हालाहलं सद्योघाति, तत्पिबतां विषयविषविसूचिका भवतीति सम्बन्धः । किमिवेत्याह-विशदविषंस्पष्टविषम् उत्कटं-तीवं कालकूटादिकं पिबतां विशदविषाजीर्णमिव प्रकटविषाजरणमिव मारणात्मकं विषये-गोचरे विषविसूचिका तदजीर्णातिरेकलक्षणा सा भवति, कालकूटादिविषभोजिन इव शब्दादिविषयभोजिनोऽनन्तसंसाररूपं तद्विपाकान्मरणं प्राप्नुवन्तीत्यर्थः ॥२१३॥ (उप०माला गा० २१३) 7/3 [28] द्वितीयापूर्वकरणे, प्रथमस्तात्त्विको भवेत् ।
आयोज्यकरणादूर्ध्वम्, द्वितीय इति तद्विदः ॥१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org