________________
२७ ततस्तस्माद् यो जीवाबाधोऽशुभपरिणामस्य हेतुः, अथवा, अशुभपरिणामो हेतुः कारणं यस्यासावशुभपरिणामहेतुर्जीवाबाधो जीवघातः स एव हिंसा इति मतं तीर्थकरगणधराणाम् । यस्य तु जीवाबाधस्य सोऽशुभपरिणामो न निमित्तं स जीवाबाधः सन्नपि तस्य साधोर्न हिंसेति । (विशेषा०भा०गा०१७६५-६७) 6/4 [23] वन्दिज्जमाणा न समुक्कसंति हीलिज्जमाणा न समुज्जलंति । ___ दंतेण चित्तेण चरंति धीरा, मुणी समुग्धाइयरागदोसा ॥८६६॥
व्याख्या-वन्द्यमानाः न समुक्कसन्ति-न समुत्कर्षं यान्ति, तथा हील्यमाना न समुज्ज्वलन्ति-न कोपाग्नि प्रकटयन्ति किं तर्हि ? दान्तेन-उपशान्तेन, चित्तेन चरन्ति धीरा-मुनयः समुद्घातितरागद्वेषा इति गाथार्थः ॥८६६॥ (आव०नि० गा०८६६) 6/6...16/4 [24] बालाभिरामेसु दुहावहेसु, न तं सुहं कामगुणेसु रायं ।
विरत्तकामाण तवोधणाणं, जं भिक्खुणो सीलगुणे रयाणं ॥१७॥ तथा बालानां-विवेकरहितानामभिरामाः-चित्ताभिरतिहेतवो ये तेषु 'दुःखावहेषु' उक्तन्यायेन दुःखप्रापकेषु न तत्सुखं 'कामगुणेषु' मनोज्ञशब्दादिषु, सेव्यमानेष्विति शेषः, 'राजन् !'-पृथ्वीपते ! 'विरत्तकामाणं'त्ति प्राग्वत्, कामविरक्तानां-विषयपराङ्मुखानां तप एव धनं येषां ते तपोधनास्तेषां यत्सुखमिति सम्बन्धः, "भिक्षूणां'-यतीनां शीलगुणयोर्वा सूत्रत्वाद् ‘रतानाम्'-आसक्तानामिति सूत्रद्वयार्थः ॥ (उत्तरा० अ० १३ गा०१७) 6/6 [25] सल्लं कामा विसं कामा, कामा आसीविसोपमा ।
कामे पत्थेमाणा, अकामा जंति दुग्गइं ॥५३॥ व्या०-शलति-देहान्तश्चलतीति शल्यं-शरीरान्तःप्रविष्टं तोमरादि शल्यमिव शल्यम्, के ते ? काम्यमानत्वात् कामा:-मनोज्ञशब्दादयः, यथा हि शल्यमन्तश्चलद्विविधबाधाविधायि तथैतेऽपि, तत्त्वत एषामपि सदा बाधाविधायित्वात्, तथा वेवेष्टि-व्याप्नोतीति विष-तालपुटादि, विषमिव विषं कामाः, यथैव हि तदुपभुज्यमानं मधुरमित्यापातसुन्दरमिवाऽऽभाति, अथ च परिणतावतिदारुणमेवमेतेऽपि कामाः, तथा कामाः आस्यो दंष्ट्रास्तासु विषमस्येत्याशीविषस्तदुपमाः, यथा ह्ययमज्ञैरवलोक्यमानः स्फुरन्मणिफणाभूषित इति शोभन इव विभाव्यते, स्पर्शनादिभिरनुभूयमानश्च विनाशायैव भवति तथैतेऽपि कामाः, किञ्च-कामान् 'प्रार्थयमाना' अभिलषन्तोऽपिशब्दस्य लुप्तनिर्दिष्टत्वात् प्रार्थयमाना अपि 'अकामा' इष्यमाणकामाभावात् 'यान्ति'-गच्छन्ति, 'दुर्गति'-दुष्टां नरकादिगति, तदनेन न केवलं शल्यादिवदनुभूयमाना एवामी दोषकारिणः, किन्तु प्रार्थ्यमाना अपीत्युक्तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org