SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ २२४ श्रीज्ञानमञ्जरी तेषां शिष्या महापुण्यकार्यसंसाधनोद्यताः । पाठका दीपचन्द्राख्याः, शिष्यवर्गसमन्विताः ॥१२॥ येन शत्रुञ्जये तीर्थे, कुन्थुनाथार्हतः पुनः । चैत्ये समवसरणे च, प्रतिष्ठा विहिता वरा ॥१३॥ चतुर्मुखे सोमजिता-कृते यः पूर्णतां व्यधात् । प्रतिष्ठां नैकबिम्बानाम्, चक्रे सिद्धाचले गिरौ ॥१४॥ अहम्मदावादमध्ये, सहस्रफणाधनेकबिम्बानाम् । चैत्यानां च प्रतिष्ठाम्, चकार यो धर्मवृद्धये ॥१५॥ तच्छिष्येण स्वबोधार्थम्, देवचन्द्रेण धीमता । व्याख्याता सुगमा शुद्धा, टीकेयं तत्त्वबोधनी ॥१६॥ स्याद्वादस्य रहस्यानाम्, ज्ञानालब्धोदयेन च । देवचन्द्रेण बोधार्थम्, सुटीकेयं विनिर्मिता ॥१७॥ संवद्रसनिधिजलधिचन्द्र मिते (१७९५) कार्तिके सिते पक्षे । पञ्चम्यां नव्यपुरे, कृतेयं ज्ञानमञ्जरी ॥१८॥ वाचनात्पठनादस्या, यो लाभो मे समागतः । तेनाहं भव्यसंघश्च, भवतां धर्मसाधकः ॥१९॥ जयतु जिनराजस्य, शासनं दुःखनाशनम् । ज्ञानानन्दविलासाढ्यम्, सर्वसंपद्विवर्द्धनम् ॥२०॥ मङ्गलं भगवान्वीरो, मङ्गलं गौतमः प्रभुः । मङ्गलं स्थूलभद्राद्या, जैनधर्मोऽस्तु मङ्गलम् ॥२१॥ इति श्रीज्ञानसारटीका ज्ञानमञ्जरी सम्पूर्णा । श्रीशुभं भूयात् । [सर्वाक्षरगणनया ग्रन्थाग्रं टीकाश्लोकाः ३८०० इयत्परिमिता पफाल] Jain Education International For Private & Personal Use Only - www.jainelibrary.org
SR No.002069
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
Author
PublisherVijaybhadra Charitable Trust Bhiladi
Publication Year2008
Total Pages506
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Knowledge
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy