SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ टीकाकारप्रशस्तिः टीकाकार: स्वप्रशस्ति निवेदयति नमः स्याद्वादरूपाय, सर्वज्ञाय महात्मने । देवेन्द्रवृन्दवन्द्याय, वीराय विगतारये ॥१॥ श्रीगौतमादिज्ञानधरा मुनीशा, देवधिपर्यन्तममेयबोधाः । तेषां सुवंशे वरभास्कराभः, श्रीवर्द्धमानो मुनिराड् बभूव ॥२॥ संवेगरङ्गशाला-ग्रन्थार्थकथनसूत्रधरतुल्यः । सूरिर्जिनेश्वराख्यः, सिद्धिविधिसाधने धीरः ॥३॥ तच्छिष्या जिनचन्द्राख्या:, सूरयो गुणभूरयः । तच्छिष्याभयदेवार्या, गच्छे खरतरेश्वराः ॥४॥ येन नवाङ्गीवृत्तिरुपपातिकोपाङ्गवृत्तिविस्तारः । विदधे पञ्चाशकादिवृत्तिर्या बोधवृद्धिकरा ॥५॥ तत्पट्टे जिनवल्लभ-सूरिजिनदत्तसूरयोऽभूवन् । पट्टानुक्रमभानुर्जातो जिनकुशलसूरिगुरुः ॥६॥ तेषां वंशे जातो, गुणमणिरत्नाकरो महाभाग्यः । कलिकालपङ्कमग्नाल्लोकान्निस्तारणे धीरः ॥७॥ श्रीमज्जिनचन्द्राह्वः, सूरिर्नव्यार्कदीधितिप्रतापः । यस्यावदातसंख्या, गण्यते नो सुराधीशैः ॥ ८ ॥ तच्छिष्याः पाठकाः श्रीमत्पुण्यप्रधानसंज्ञिताः । सुमतेः सागराः शिष्यास्तेषां विद्याविशारदाः ॥९॥ तच्छिष्याः साधुरङ्गाख्या, राजसारा: सुपाठकाः । सर्वदर्शनशास्त्रार्थतत्त्वदेशनतत्पराः ॥१०॥ तच्छिष्या ज्ञानधर्माख्याः पाठकाः परमोत्तमाः । जैनागमरहस्यार्थ - दायका गुणनायकाः ॥११॥ Jain Education International - 1 For Private & Personal Use Only २२३ www.jainelibrary.org
SR No.002069
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
Author
PublisherVijaybhadra Charitable Trust Bhiladi
Publication Year2008
Total Pages506
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Knowledge
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy