SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ सर्वनयाश्रयणाष्टकम् (३२) २०९ तत्त्वावबोधाय तत्त्वार्थिनं प्रति यद्वदति स धर्मवादः । सर्वनयज्ञानां सर्वनयज्ञानवताम्, धर्मवादतो वक्ता-तत्त्वकथनरसिकः, श्रोता च तत्त्वज्ञानरसिक इति उभयोर्यथार्थयोगे धर्मकथनतो विपुलं श्रेयः - कल्याणम् । यदि च न श्रोता तादृक् तथापि तत्त्वबोधनेच्छया धर्मकथनं हिताय । च पुनः शुष्कवादात् च पुन:, विवादात् परेषामेकान्तदृष्टीनां विपर्ययः - अश्रेयः - अकल्याणम् । सूक्ष्मार्थकथनं पात्रयोग्यतया धर्महितकरणं तु भावानुकम्पा ॥५॥ अथ सन्मार्गप्रशंसनामाह प्रकाशितं जनानां यैर्मतं सर्वनयाश्रितम् । चित्ते परिणतं चेदम्, येषां तेभ्यो नमो नमः ॥ ६ ॥ प्रकाशितमिति - यै:- सर्वज्ञाचार्योपाध्यायैः सम्यग्दर्शनज्ञानचारित्रपरिणतैः श्रीहरिभद्रादिभिः संविग्नपाक्षिकैः यथार्थोपदेशकैः, सर्वनयाश्रितं सर्वनयसापेक्षं स्याद्वादगर्भितं मतमिष्टं शासनं मोक्षाङ्गरूपं प्रकाशितम्, तेभ्यो नमः । शुद्धोपदेशका एव विश्वे पूज्याः । उक्तं च भवभावनायाम्— भद्दं बहुस्सुआणं, बहुजणसंदेहपुच्छणिज्जाणं । उज्जोइअभुवणाणं, झीणंमि वि केवलमयंके ॥५०६ ॥ ते पुज्जा तियलोए, सव्वत्थ वि जाण निम्मलं नाणं । पुज्जाण वि पुज्जयरा, नाणी य चरित्तजुत्ता य ॥५०५ ॥ [गा० ५०६. ५०५] तथा उपदेशमालायाम् - [138] सावज्जजोगपरिवज्जणाओ सव्वुत्तमो जधम्मो । बीओ सावगधम्मो, तइओ संविग्गपक्खपहो ॥५१९ ॥ १. तत्त्वावबो० L.D.1. - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002069
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
Author
PublisherVijaybhadra Charitable Trust Bhiladi
Publication Year2008
Total Pages506
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Knowledge
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy