________________
२०८
श्रीज्ञानमञ्जरी लोके सर्वेति-लोके- दक्षजनसमूहे (सर्व) 'नयज्ञानां-सर्वनयरहस्यविज्ञानां ताटेस्थ्यं-तटस्थत्वं पार्श्ववर्तित्वम्, वा इति व्यवस्थायाम् । अपि-समुच्चये, अनुग्रहः-उपकाराय भवति । सर्वत्र परीक्षकत्वं हितम् । पृथङ्नयमूढानाम्-एकैकनयपक्षग्रहवर्तिनाम्, स्मयातिः-मानोन्मादपीडा, वा-अथवा, अतिविग्रहः-कदाग्रहः स्यात्- भवति । उक्तं च[136] *कालो सहावणियई, पुव्वकयं पुरिसकारणेगंता। मिच्छत्तं ते चेव उ समासओ होति सम्मत्तं ॥५३॥
[सन्म०-कां०-३ गा० ५३] अत्र पुरुषाकारस्य उपादानकारणत्वात् मुख्यत्वम्, कालस्वभावपूर्वकृतानां तु निमित्तासाधारणापेक्षा कारणत्वम्, नियतेश्च कारणत्वमौपचारिकम्, अस्या अनित्यत्वं विचारामृतसंग्रहे उक्तमस्ति, इति नियतपक्षः आजीविकानां मिथ्याग्रहरूपः, न जैनानाम्, एवमंशस्यापि जैनमार्गे विवक्षितत्वात् समुच्चयवचनम् ॥४॥ एवं सापेक्षा श्रद्धा कार्या इत्युपदिशन्नाह
श्रेयः सर्वनयज्ञानाम्, विपुलं धर्मवादतः । शुष्कवादविवादाच्च, परेषां तु विपर्ययः ॥५॥
श्रेयः सर्वेति-अत्र च[137] श्रीहरिभद्रोक्ताष्टके [अष्ट०१२, श्लो०१] वादत्रयस्वरूपं तद् यथा शुष्कवादः, विवादः, धर्मवादः । कण्ठतालुशोषणमात्रः शुष्कवादः, यथार्थताशून्यः कषायोपष्टम्भत्वात् त्याज्यः । परपक्षपाजयबुद्ध्या स्वपक्षस्थापनपुरःसरः विवादः, सोऽपि हेयः । तत्त्वज्ञानी परस्पर१. माध्यस्थ्यम् L.D.1. । २. पूर्वकृता A.D.V.1. विना । ३. परस्य तत्त्व S.M विना। * कालो सहाव णियइ, पुवकयं पुरिषकारणे पंच ।
समवाये समत्तं, एगत्ते होइ मिच्छतं ॥५॥ सर्वप्रतिषु,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org